Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 36
________________ प्राकृतानन्द एत इद् वेदना-देवरयोः ॥ ६८ ॥ अनयोः आदेः एत इर्वा स्यात् । देवरः दिअरो देअरो, 'क-ग' (१०) इति वलोपः। ऐत एत् ॥ ६९ ॥ आदेः ऐतः ए: स्यात् । शैलः सेलो । कैलासः केलासो। दैत्यादिष्वइः ॥ ७० ॥ दैत्यादिषु ऐकारस्य अइः इत्यादेशः स्यात् ॥ त्य-थ्य-द्यां च्च-च्छ-जाः॥ ७१ ॥ त्रयाणां क्रमेण त्रयः स्युः। दैत्यः दइच्चो । चैत्रः चइत्तो, 'सर्वत्रः' (३४) इति रलोपः। भैरवः भइरवो । वैदेशः वइदेसो । वैदेहः वहदेहो। कैतवः कइअवो । वैशाखः वइसाहो, 'ख-घ०' (५९) इति हः। वैशिकः वइसिओ । वैशम्पायनः वइसंपाअणो । दैत्य चैत्र भैरव खैर वैर वैदेश वैदेह कैतव वैशाख वैशिक वैशम्पायन दैत्यादिः। ओतोऽद् वा प्रकोष्ठे कस्य वः ॥ ७२ ॥ प्रकोष्ठशब्दे ओतः अद् वा स्यात्, कस्य च वः स्यात् । प्रकोष्ठः पवट्ठो, 'सर्वत्रः' (३२) इति रलोपः, 'उपरि०' (३६) इति षलोपः, 'शेषा०' (३५) इति द्वित्वम् । पक्षे पओहो, 'क-ग' (१०) इति कलोपः। औत ओत् ॥ ७३ ॥ ... आदेः औकारस्य ओत् स्यात् । पौत्रः पोत्तो। पौरादिष्वउः ॥ ७४ ॥ एषु औकारस्य अउः इत्यादेशः स्यात् । ओत्वापवादः । पौरः पउरो। कौरवः कउरवो। कौशले वा ॥ ७५ ॥ कउसलो कोसलो । आकृतिगणोऽयम् । उत् सौन्दर्यादिषु ॥ ७६ ॥ एषु औकारस्य उत् स्यात् । मौञ्जायनः मुंजाअणो। शौण्डः सुंडो। कौक्षेयकः कुक्खेअओ, 'वर्गेषु०' (३१) इति कः, 'कग' (१०) इति य-कोर्लोपः । सौन्दर्य मौञ्जायन शौण्ड कौक्षेयक दौवारिकादयः सौन्दर्यादिः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108