Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur

View full book text
Previous | Next

Page 31
________________ पण्डित-रघुनाथ-कवि-विरचित सुपः सुः॥२४॥ अदन्तात् परस्य सुपः सु इत्यादेशः स्यात् । ओत्वापवादः । नारायणेषु णाराअणेसु । 'ए च०' (१४) इति एत्वम् । नाऽऽमन्त्रणे सावोत्व-दीर्घत्व-बिन्दवः ॥ २५ ॥ सम्बोधने ओत्व-दीर्घत्वा-ऽनुखारा न स्युः। अन्त्यस्य हलः ॥ २६ ॥ [अन्त्यस्य हलः] लोपः स्यात् । हे नारायण हे णाराअण । रागः राओ। 'क-ग' (१०) इति गलोपः। रागाः राआ राए, 'जस्-शसोः०' (१२) इति लोपः, 'जस्-शस्०' (१३) इति दीर्घः। सम्पम् राअं। रागान् राआ राए । रागेण राएण । रागैः राएहिं । रागाय राअस्स । रागेभ्यः राआणं । रागात् राआ राआदो राआदु राआहि । रागेभ्यः राआहितो राआसुत्तो। रागस्य राअस्स । रागाणाम् राआणं । रागे राए राअम्मि । रागेषु राएसु। आदेरतः ॥ २७ ॥ -इत्यधिकृत्य। इदीषत्-पक्क-स्वप्न-वेतस-व्यजन-मृदङ्गा-ऽङ्गारेषु ॥ २८ ॥ एषु सप्तसु मध्ये आदेः अतः इः स्यात् । उद् ऋत्वादिषु ॥ २९ ॥ एषु ऋतः उः स्यात् । मृदङ्गः मुइंगो। ऋतु मृणाल पृथिवी वृन्दावन प्राट् प्रवृत्ति विवृत संवृत निवृत वृत्तान्त परभृत मातृक जामातृक मृदङ्ग इत्यादि ऋत्वादिः। विप्रकर्षः ॥ ३० ॥ -इत्यधिकृत्य । युक्तस्य ॥ ३१ ॥ -इत्यधिकृत्य। इः श्री-ही-क्रीत-क्लान्त-क्लेश-म्लान-खान-स्पर्श-हर्षा-ऽर्ह-गर्थेषु ॥ ३२ ॥ एषु एकादशसु युक्तस्य विप्रकर्षः स्यात्, पूर्वस्य इत्वम्, तत्वरता च । 'नो या:०' (९) इति णः । खमः सिविणो इत्यादि । 'उपरि० (३६) इति वक्ष्यमाणेन पलोपः। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108