Book Title: Prakrutanand
Author(s): Jinvijay
Publisher: Rajasthan Prachyavidya Pratishthan Jodhpur
View full book text
________________
पण्डित-रघुनाथ-कवि-विरचित
वक्रादिषु ॥ ५॥ एषु अनुखारागम: स्यात् । वकं वक। वक्र व्यस्त हख अश्रु श्मश्रु गृष्टि मूर्द्धन मनखिनी दर्शन स्पर्श वर्ण प्रतिश्रुत् अश्व अभिमुक्त वक्रादिः।
मांसादिषु वा ॥ ६॥ एषु वा बिन्दुः स्यात् । संयोगेऽणो हख इति वाच्यम् । मांसं मंसं मासं । आकृतिगणोऽयम् ।
झयि तद्वर्गान्तः ॥७॥ तद्वर्गान्तोऽनुखारो वा स्याद् झयि । शङ्का संका सङ्का ।
॥ इति सन्धिः ॥
__अत ओत् सोः ॥ ८॥ अकारान्तात् परस्य सोः ओत् स्यात् ॥
नो णः सर्वत्र ॥ ९॥ यत्र कचित् स्थितस्य नस्य णः स्यात् ।
क-ग-च-ज-त-द-प-य-वां प्रायो लोपः ॥ १० ॥ कादीनां नवानामयुक्तानामनादिवर्तिनां प्रायो लोप: स्यात् । नारायणः णाराअणो । अयुक्तानामिति किम् ? शक्रः सको इत्यादि । अनादिवर्तिनामिति किम् ? कृष्णः कण्हो इत्यादि ।
द्विवचनस्य बहुवचनम् ॥ ११॥ सुपां तिङां च द्विवचनस्य बहुवचनं स्यात् ।
जस्-शसोर्लोपः ॥ १२ ॥ अकारान्तात् परयोः जसू-शसोः लोप: स्यात् ।
__जसू-शसू-ङसि-आमसु दीर्घः ॥ १३ ॥ एषु अतो दीर्घः स्यात् ।
ए च सुप्यङि-ङसोः ॥ १४ ॥ अकारस्य एत्वं स्यात् सुपि, न तु डि-ङसोः। चाद् दीर्घोऽपि । नारायणी नारायणाः णाराअणे णाराअणा। अडि-उसोरिति किम् ? नारायणे णाराअणम्मि, नारायणस्य णाराअणस्स।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108