________________
पण्डित-रघुनाथ-कवि-विरचित
सुपः सुः॥२४॥ अदन्तात् परस्य सुपः सु इत्यादेशः स्यात् । ओत्वापवादः । नारायणेषु णाराअणेसु । 'ए च०' (१४) इति एत्वम् ।
नाऽऽमन्त्रणे सावोत्व-दीर्घत्व-बिन्दवः ॥ २५ ॥ सम्बोधने ओत्व-दीर्घत्वा-ऽनुखारा न स्युः।
अन्त्यस्य हलः ॥ २६ ॥ [अन्त्यस्य हलः] लोपः स्यात् । हे नारायण हे णाराअण ।
रागः राओ। 'क-ग' (१०) इति गलोपः। रागाः राआ राए, 'जस्-शसोः०' (१२) इति लोपः, 'जस्-शस्०' (१३) इति दीर्घः। सम्पम् राअं। रागान् राआ राए । रागेण राएण । रागैः राएहिं । रागाय राअस्स । रागेभ्यः राआणं । रागात् राआ राआदो राआदु राआहि । रागेभ्यः राआहितो राआसुत्तो। रागस्य राअस्स । रागाणाम् राआणं । रागे राए राअम्मि । रागेषु राएसु।
आदेरतः ॥ २७ ॥ -इत्यधिकृत्य।
इदीषत्-पक्क-स्वप्न-वेतस-व्यजन-मृदङ्गा-ऽङ्गारेषु ॥ २८ ॥ एषु सप्तसु मध्ये आदेः अतः इः स्यात् ।
उद् ऋत्वादिषु ॥ २९ ॥ एषु ऋतः उः स्यात् । मृदङ्गः मुइंगो। ऋतु मृणाल पृथिवी वृन्दावन प्राट् प्रवृत्ति विवृत संवृत निवृत वृत्तान्त परभृत मातृक जामातृक मृदङ्ग इत्यादि ऋत्वादिः।
विप्रकर्षः ॥ ३० ॥ -इत्यधिकृत्य ।
युक्तस्य ॥ ३१ ॥ -इत्यधिकृत्य। इः श्री-ही-क्रीत-क्लान्त-क्लेश-म्लान-खान-स्पर्श-हर्षा-ऽर्ह-गर्थेषु ॥ ३२ ॥
एषु एकादशसु युक्तस्य विप्रकर्षः स्यात्, पूर्वस्य इत्वम्, तत्वरता च । 'नो या:०' (९) इति णः । खमः सिविणो इत्यादि । 'उपरि० (३६) इति वक्ष्यमाणेन पलोपः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org