________________
प्राकृतानन्द
प्रतिसर-वेतस-पताकासु डः ॥ ३३ ॥ एषु तस्य डः स्यात् । प्रतिसरः पडिसरो । 'सर्वत्र' (३४) इति वक्ष्यमाणेन रलोपः। ननु पडिवआ पडिसिद्धि इत्यादौ तस्य डः केन ? इति चेत्, उच्यते, प्रतिसर इत्यत्र प्रतिना सरति प्रतिपूर्वक इति यावद् इति व्याख्यानात्, 'प्रतिसर'शब्दस्यापि प्रतिनैव सरत्वादिति । वेतसः वेडिसो।
सर्वत्र लबराम् ॥ ३४ ॥ संयुक्तस्य उपर्यधःस्थितानां लकार-बकार-रेफाणां लोपः स्यात् ।
शेषा-ऽऽदेशयोदित्वमनादौ ॥ ३५ ॥ युक्तस्य लोपे जाते यः शेषः आदेशश्च तयोः अनादौ वर्तमानयोर्द्वित्वं स्यात् । पक्कः पिक्को।
उपरि लोपः क-ग-ड-त-द-प-ष-साम् ॥ ३६ ॥ ___ कादीनामष्टानां युक्तस्य उपरिस्थितानां लोपः स्यात् । भक्तः भत्तो।
वर्गेषु युजः पूर्वः॥ ३७॥ __ 'शेषा०' (३५) इति यस्य द्वित्वं क्रियते स द्वितीयः चतुर्थो वा चेत् तत्पूर्वः प्रथमः तृतीयो वा स्यात् । मुग्धः मुद्धो । खगः खग्गो। उत्पीतः उप्पीओ। सद्गमः सग्गमो । आप्तः अत्तो। वसिष्ठः वसिहो।
स्नेहे वा ॥ ३८ ॥ अत्र युक्तस्य विप्रकर्षों वा स्यात्, पूर्वस्य अत्वं च । लेहः सणेहो हो।
आदेर्यो जः ॥ ३९ ॥ शब्दस्य आदिभूतयकारस्य ज-आदेशः स्यात् ।
अधो म-न-याम् ॥ ४०॥ युक्तस्य अधःस्थितानामेषां लोप: स्यात् । योग्यः जोग्गो।
ए शय्यादिषु ॥४१॥ एषु आदेः अकारस्य एत्वं स्यात् । उत्करः उक्केरो । शय्या सौन्दर्य उत्कर त्रयोदश आश्चर्य पर्यन्त बल्ली शय्यादिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org