________________
प्राकृतानन्द
अतोऽमः ॥ १५ ॥
अकारान्तात् परस्य अमः अकारस्य लोपः स्यात् । नारायणं नाराअणं । ननु 'सन्धावचाम् ० ' (१) इति अलोपेनैव भाव्यम् इति चेत्, न, तत्र बहुलग्रहणात् क्वचिदप्रवृत्तेरपि सम्भावनीयत्वात् । नारायणान् णाराअणा णाराअणे ।
टा-ऽऽमोर्णः ॥ १६ ॥
अकारान्तात् परयोः टा-ऽऽमोः णः स्यात् । नारायणेन णाराअणेण । नारायणानां णाराअणाणं ।
भिसो हिं ॥ १७ ॥
अकारान्तात् परस्य भिसो हिं इत्यादेशः स्यात् । नारायणैः णाराअणेहिं ।
चतुर्थ्याः षष्ठी ॥ १८ ॥ स्यात् । तथा हि । स्सो ङसः ॥ १९॥
अकारान्तात् परस्य उसः स्स इत्यादेशः स्यात् । नारायणाय णाराअणस्स । नारायणेभ्यः णाराअणाणं ।
ङसेः : आ-दो-दु-हयः ॥ २० ॥
अदन्तात् परस्य ङसेः आ दो दु हि इति प्रत्येकं चत्वार आदेशाः स्युः । नारायणात् णाराअणा णाराअणादो णाराअणादु णारायणाहि । 'जस्-शस्०' (१३) इति दीर्घः ।
यसो हिंतो सुत्तो ॥ २१ ॥
अदन्ताद् भ्यसो हिंतो मुत्तो इत्येतौ आदेशौ स्याताम् । नारापणेभ्यः णाराअणाहिंतो णाराअणासुत्तो । नारायणस्य णाराअणस्स ङः ए-म्मी ॥ २२ ॥
अदन्ताद् ङि इति सप्तम्येकवचनस्य ए म्मि इत्येतौ स्याताम् । कचिदू ङसि ङयोर्लोपः ॥ २३ ॥
ङसिङयोः परयोः कचिदतो लोपः स्यात् । नारायणे णाराअणे णारा अणम्मि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org