Book Title: Pavitra Kalpasutra
Author(s): Punyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 343
________________ ३ 1 ज्ञानार्था धातव इति । 'बंभन्नएसु' ब्राह्मणसम्बन्धिषु 'परिव्वाययेसु' 'परित्राजकसत्केषु 'नीतिषु' दर्शनेष्वित्यर्थः, 'सुपरिनिट्टिए 'ति सुष्ठु निष्ठां प्राप्तः सुशिक्षित इत्यर्थः भविष्यतीति ॥ `सूत्रम् १३ – “ तेण कालेण'मित्यादि पूर्ववत् । "सक्के देविंदे' देवानामिन्द्रः, “इदि परमैश्वर्ये" इति वचनाद् इन्दनादिन्द्रः, "इन्देरकू" ) औणादिकः प्रत्ययः । ' देवराया' देवानां राजा, "राज दीप्तो" । 'वज्जपाणी' वज्रं पाणौ प्रहरणं यस्य सः । ' पुरन्दरे' असुरादिपुराणां दारणात् पुरन्दरः । 'सतक्कतू' 'शर्त ऋतूनां - प्रतिमानामभिग्रहविशेषाणां श्रमणोपासक पञ्चमप्रतिमा रूपाणां वा कार्तिकश्रेष्ठिभवापेक्षया यस्यासौ शतकंतुः । 'सहस्सक्खे' सहस्रमक्ष्णां यस्यासौ सहस्राक्षः, इन्द्रस्य किल मन्त्रिणां पञ्चशतानि सन्ति, तदीयानां चाक्ष्ण - मिन्द्र प्रयोजनव्यापृततयेन्द्रसम्बन्धित्वेन विवक्षणात् स सहस्राक्षः । 'मघवं' मघाः - मेघास्ते यस्य वशे सन्त्यसौ मघवा । 'पागसासणे' पाको नाम बलवान् रिपुस्तं शास्ति - निराकरोति स पाकशासनः । ' दाहिणड्ढयोगा हिवई 'त्ति दक्षिणार्द्धलोकाधिपतिः । 'बत्तीसविमाणसय सहस्साहिवई' द्वात्रिंशद् : विमानशतसहस्राः - लक्षा इति तेषामधिपतिः । ' एरावण 'त्ति ऐरावणो वाहनं यस्य सः । सुरेन्द्र इति । ' अरयंबरवत्थधरे' अरजांसि च तानि अम्बरवस्त्राणि च स्वच्छतया आकाशकल्पवसनानि अरजोऽम्बरवखाणि तानि धारयति यः सः । 'आलइअमालमउडे' आलगितमालं मुकुटं यस्य स तथा । 'नवहेमचारुचित्त'त्ति नवाभ्यामिव हेम्नः सत्काभ्यां चारुचित्राभ्यां चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानो गण्डौ यस्य स तथा । 'महढिए' महाऋद्ध्या समस्तच्छत्रादिराजचिह्नरूपया । 'महज्जुईए' महाद्युत्या आभ -रणादिसम्बन्धिन्या । सर्वजुत्या वा- उचितेष्टवस्तुघटनालक्षणया ॥ सूत्रम् १४ – 'सामाणिय'त्ति स्वमानया - इन्द्रतुल्यया ऋद्ध्या चरन्तीति सामानिकाः । ' तायत्तीसाए 'ति त्रयस्त्रिंशतः 'तायत्तीसगाणं' मन्त्रिकल्पानाम् । 'लोगपालाणं' ति सोम-यम- वरुण-वैश्रमणानाम् । 'अग्गमहिसीणं 'ति पौलोमी - शचीप्रमुखाणाम् । सपरिकरणां 'तिन्हं परिसाणं' । 'सत्तहँ अणियाणं' गान्धर्विक नाट्या ऽश्व रथ हस्ति-भटवृषभानीकानाम्, एषामनीकाधिपानां च । 'चउण्हं चउरासीणं आयरक्ख'त्ति आत्मरक्षाः - अङ्गरक्षस्थानीयाः । 'अन्नेसि' इत्यादिकानां 'आहेवचं' आधिपत्यं - अधिपतिकर्म । 'पोरेव' पुरोवर्तित्वं- अप्रगामित्वम् । ‘स्वामित्वं' स्वामिभावम्। ‘भर्तृत्वं' पोषकत्वम् । 'महत्तरगत्तं महान्तं (महद् ) गुरुत्वम्, तरशब्दो गुरुत्वख्यापकः। आणेसरत्तं-आज्ञेश्वरस्य- आज्ञाप्रधानस्य सतः यत् सेनाधिपत्यं तत् तथा । कारयन् अन्यैः पालयन् 'स्वयमिति । 'मेहयाहय'त्ति आहतमहता वेणमिति, अथवा 'भय'त्ति अहतानि - अव्याहतानि नाट्य-गीतचादितानि, आहतेभ्यः - मुख - हस्त - दण्डादिभिः शङ्ख-पटह-मर्यादिभ्यो वैद्यविशेषेभ्यः आकुट्यमानेभ्यो वा, शङ्खाः- प्रतीताः, शङ्खिका-हस्वशः, खरमुहिका - काहली, पोया-महती काहला, पिरिपिरिया-कोलिक 9: “महयाहयनहगीयवादयसंखसंखियखर मुद्दीपोयापिरिपिरियापणव पडहभंभा होरं भभेरी झारीदुहितावित घणसिरतंतीतलताल तुडिय मुइंग पहुनाइयर वेण” इति पाठानुसारेण टिप्पनककृंता व्याख्यातमाभाति, नोपलब्धोऽयं एतत्समो वा पाठः क्वचिदप्यादर्श अन्यत्र जीवाभिगमादावपि चेति ॥ २ पावित्रवि- ६० ।। ३-ला, बुक्का-महती इं० ॥

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458