Book Title: Pavitra Kalpasutra
Author(s): Punyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
Publisher: Sarabhai Manilal Nawab
View full book text ________________
निश्चयम् ॥ सूत्रम् ५३-आरोग्य-नीरोगता, तुष्टिः-हृदयतोषः, दीर्घायुः-आयुषो वृद्धिः, कल्याणानि-अर्थप्राप्तयः, मङ्गलानि-अनर्थप्रतिघाताः। 'तिसिलिं खत्तियाणि जाब सुमिणा दिवा' । अर्थलाभो भविष्यतीति शेषः। 'अम्हं कुलकेऊ' केतुः चिह्न ध्वज इत्यनान्तरम, केतुरिव केतुरभुतत्त्वात् , कुलस्य केतुः कुलकेतुस्तम् , एवमन्यत्रापि। 'कुलदोष दीप इव दीपः प्रकाशकत्वात्। कुलपब्वयं'कुलपर्वतोऽनभिभवनीयस्थितिराश्रयसाधात् । 'कुलवडिंसर्य' कुलावतंसकः-शेखर उत्तमत्वात्।'कुलतिलय तिलक:-विशेषकः भूषकत्वात् । 'कुलकित्तिकर' इह कीर्ति रेकदिग्यामिनी प्रसिद्धिः। 'कुलदिणयर' कुलस्य दिनकरः कुलप्रकाशकत्वात्। 'कुलाहारं' कुलस्याधारः कुलाधारः पृथ्वीवत् 1 'कुलविवरणकर' विविधैः प्रकारैर्वर्द्धन धन-धान्य-पुत्र-कलत्र-मित्र-हस्त्यश्वादिभिरिति । 'कुलनंदिकर समृद्धिहेतुत्वात् । 'कुलजसकर' सर्वदिग्गामिकप्रसिद्धिविशेषः 'कुलपायवं' पादप आश्रयणीयच्छायत्वात् तत्करणशीलम् । 'सुकुमाल' सुकुमालौ पाणि-पादौ यस्य तम्। 'अहीणपुन्नपंचिंदिय' अहीनानि-स्वरूपतः पूर्णानि-संख्यया पुण्यानि-पूतानि वा पञ्चेन्द्रियाणि बस्य तत् तथा, तदेवंविधं शरीरं यस्य तम् । तथा 'लक्खणवंजण'त्ति लक्षणानि-स्वस्तिकादीनि व्यञ्जनानि-मपतिलकादीनि तेषां यो गुणःप्रशस्तता तेनोपेतः-युक्तो यः स तथा तम् । अथवा सहज लक्षणम् , पश्चाद्भवं व्यञ्जनमिति, गुणाःसौभाग्यादयः लक्षणव्यञ्जनानां वा ये गुणास्तैरुपेतं-युक्तं यं तं तथा । 'मानोन्मान' तत्र मान-जलदोणमानता, जलभृतकुण्डिकायां हि मातव्यः पुरुषः प्रवेश्यते, तत्प्रवेशे च यज्जलं ततो निःसरति तद् यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते । उन्मानं तु-अर्द्धभारमानता, मातव्यपुरुषो हि तुलारोपितो यद्यर्द्धभारमानो भवति तदा उन्मानोपेतोऽसावुच्यते । प्रमाण पुनः-स्वाङ्गुलेनाष्टोत्तरशताङ्गुलोच्छमता । बदाहजलदोणमद्धभारं, समुहाई समूसिली उ जो मथ उ । माणुम्माणपमाणं, तिविहं खलु लक्खणं एवं ॥१॥ स्वमुखानि द्वादशाङ्गुलप्रमाणानि नवमिर्गुणितान्यष्टोत्तरं शतमजलानां भवति। शेषपुरुषलक्षणमेतत् , तीकरास्तु विंशताङ्गुलशतमाना भवन्ति। तैः परिपूर्ण लक्षणादिभिरिति। अतः सुजातसर्वाङ्गसुन्दराङ्गम् । ससिसोमाकार “कान्तंच' कमनीयं तम् । अत एव प्रियं द्रष्ट्रणां दर्शन-रूपं यस्य स तथा तम्। 'दारकं' पुत्रं जनिष्यसे । सूत्रम् ५४-से विय णं' स चासो दारक उन्मुक्तबालभावः 'विनय विज्ञ एव विज्ञकः परिणतमात्रश्च कलादिग्विति गम्यते विज्ञकपरिणतमात्रः। यौवनमनुप्रातः शूरः' दानतोऽभ्युपेतनिर्वाहणतो वा, धीरः'परैरक्षोभ्यः, 'वीरः' संमामतः,'विकान्तः परकीयभूमण्डलाक्रमणतः। 'विच्छिन्नविपुलबलवाहणे' विस्तीर्णविपुळे-अतिविपुले बल-वाहनेसैन्य-गवादिके यस्य स तथा । 'रजवइत्ति राज्यपतिः स्वतन्त्रमित्यर्थः भविष्यतीति ॥ सूत्रम् ५५सा एवं श्रुत्वा जाव एव वयासी ॥ . सूत्रम् ५६–'एवमेयं' एवमेतत् स्वामिन् ! अवैतद् यूयं वदत । 'तहमेयं तथैतद्विशेषः । 'अवितहमेयं सत्यमेतदित्यर्थः । 'असंदिद्धमे सन्देहवर्जितमेततू । 'इच्छियमेय' इष्टमेतत् । 'पडिच्छियमेय' प्रतीप्सितं प्राप्तुमिष्टम् । 'इच्छिय-पडिच्छियमेय' युगपदिप्सा-प्रतीसाविषयत्वात , 'इच्छियपडिच्छिय वा' उभयधर्मयोगाद् अत्यन्तादरख्यापनाय वा स्वामिन् ! । राज्ञा मुत्कलिता स्वशयनीये उपागच्छति । एवं क्यासी ॥ सूत्रम् १७-मम एते स्वप्ना इत्यर्थः 'उत्तम'त्ति स्वरूपतः 'पहाण'त्ति अर्थप्राप्तिरूपप्रधानफलतः 'मंगल'त्ति अनर्थप्रतिघातरूपफळापेक्षयेति स्वप्ना इति अन्यः
Loading... Page Navigation 1 ... 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458