Book Title: Pavitra Kalpasutra
Author(s): Punyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 356
________________ भिष्वङ्गत्वात् । 'अकिंचणे' नास्ति किश्चन द्रव्यं यस्य स अकिश्चनः । 'छिन्नगंथे छिन्नो ग्रन्थः-धनधान्यादिस्तत्प्रतिबन्धो वा स तथा । 'निरुवलेवे' द्रव्यतो निर्मलदेहत्वाद् भावतो बन्धहेत्वभावाद् निर्गत उपलेपो यस्मादिति निरुपलेपः । एतदेवोपमानैरभिधीयते–'कंसपाईव' कंसपात्र्येव मुक्ततोया यथा भवति निर्लेप इत्यर्थः । “संखे' रंगणं-रागाधुपरञ्जनं तस्मान्निर्गत इत्यर्थः । जीवे इव संयमे गतिः-प्रवृत्तिन हन्यते अस्य कथश्चिदिति भावः । 'गयणमिव' न कुलप्रामाद्यालम्बन इति भावः । वायुरिव प्रामादिष्वेकराज्यादिवासात् । 'सारयसलि' अकलुषमनस्त्वात् । 'पुक्खरपत्तं' प्रतीतम् । 'कुम्मो इव' कच्छपो हि कदाचिदवयवपञ्चकेन गुप्तो भवत्येवमसावपीन्द्रियपश्चकेनेति । 'विहग इव' मुक्तपरिच्छदत्वादनियतवासाच्चेति । 'खग्गविसाणं व' खङ्गःआटव्यो जीवस्तद्विषाणं-शृङ्गं तदेकमेव भवति तद्वद् 'एकजातः' एकभूतः, रागादिसहायवैकल्यादिति । 'भारंडपक्खी' भारुण्डपक्षिणोः किलैकं शरीरं पृथग्रीवं त्रिपादं भवति, तौ चात्यन्ताप्रमत्ततयैव निर्वाहं लभेते इति तेनोपमेति । 'कुंजरो' हस्तीव शूरः कषायादिरिपून् प्रति। 'वसहो' गौरिवोत्पन्नबलः, प्रतिज्ञातवस्तुभरनिर्वाहक इत्यर्थः । 'सीहो इव' परीषहादिभिरनभिभवनीय इत्यर्थः । 'मंदरो' मेरुरिवानुकूलाधुपसगैरविचलितसत्त्वः । 'सागरो' हर्ष-शोकादिभिरक्षोभित्वादिति । 'चंदे इव'' अनुपतापकारिपरिणामः । 'सूरे इव' दीप्ततेजाः, द्रव्यतः शरीरदीप्त्या भावतो ज्ञानेन । 'जच्चकणगं व' जातंलब्धं रूपं-स्वरूपं रागादिकुद्रव्यविरहाद् येन स तथा । 'वसुंधरो' स्पर्शाः-शीतोष्णादयोऽनुकूलेतराः । 'सुहुयहुयासणे' सुष्ठुहुतं-क्षिप्तं घृतादीति गम्यते यस्मिन् स सुहुतः, स चासौ हुताशनश्च-चतिरिति सुहुतहुताशनः, तद्वत्तेजसा-ज्ञानरूपेण तपोरूपेण वा ज्वलन्-दीप्यमानः॥ सूत्रम् १२०-१२१-जंभियग्रामस्य नगरस्य बहिः उज्जुवालिकानद्यास्तोरे। 'वियावत्तस्से'ति चूर्णियथा-"विजयावत्तस्स चेइयस्स' विजयावत्तं नामेणं, 'वियावत्तं वा' व्यावृत्तं चेतियत्तणाओ, जिण्णु जाणमित्यर्थः" । 'कटुकरण' क्षेत्रम् । 'आवीकर्म' प्रकटं कर्म कृतं पगासकयं ति । 'रह:कर्म' प्रछनकृतम् । शेषं कण्ठ्य म्" ॥ सूत्रम् १२२'अंतरावासे वसावासं उवागए' छउमत्थकाले जिणकाले य एए वासारत्ता ४२ संख्याः । 'पणियभूमी' वज्जभूमी । अंतरावासे'त्ति वासारत्तस्याऽऽख्या नाम । उक्तं च-"अंतरघणसामलो भयवं" वर्षाराजघनसम इति । 'पावा' देवेहिं कयं, जेण तत्थ भगवं कालगओ रज्जुका-लेहगा तेषां सभा रज्जुगसभा, अपरिभुज्जमाणा करणशाला ॥ सूत्रम् १२३-कत्तियमासे कालपक्खे चरिमा रयणी अवामसा। कालं-अंतं गतः कालगतः, कायटिंतिकालाद् भवदिइकालाच्च वीइक्कंतो । जाति-जरा-मरणस्स य बंधणं तं छिन्नं । 'सिद्धः' साधितार्थः, 'बुद्धः'ज्ञः, मुक्तो भवेभ्यः, सर्वभावेन निर्वृतः, अन्तकृत सव्वदुक्खाणि-संसारियाणि पहीणाणि सारीराणि माणसाणि य। बिईओ चंदो संवच्छरो, द्वितीयप्रमाणं ३५४ १३ दिन, पीइवद्धणो मासो, नंदिवद्धणो पक्खो, अग्गिवेसो नाम दिवसो उवसमो १ विश्वेष्वपि चूकॊदर्शेषु टिप्पनकादशेषु च अवामंसा इत्येव पाठो वरीवृत्वते इति सम्भाव्यते "तत्कालीन भाषाविदां 'अमावसा'ऽर्थको 'अबामसा' शब्दोऽपि सम्मतः" इति नात्राशुद्धपाठाशङ्का विधेयेति ॥

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458