________________
भिष्वङ्गत्वात् । 'अकिंचणे' नास्ति किश्चन द्रव्यं यस्य स अकिश्चनः । 'छिन्नगंथे छिन्नो ग्रन्थः-धनधान्यादिस्तत्प्रतिबन्धो वा स तथा । 'निरुवलेवे' द्रव्यतो निर्मलदेहत्वाद् भावतो बन्धहेत्वभावाद् निर्गत उपलेपो यस्मादिति निरुपलेपः । एतदेवोपमानैरभिधीयते–'कंसपाईव' कंसपात्र्येव मुक्ततोया यथा भवति निर्लेप इत्यर्थः । “संखे' रंगणं-रागाधुपरञ्जनं तस्मान्निर्गत इत्यर्थः । जीवे इव संयमे गतिः-प्रवृत्तिन हन्यते अस्य कथश्चिदिति भावः । 'गयणमिव' न कुलप्रामाद्यालम्बन इति भावः । वायुरिव प्रामादिष्वेकराज्यादिवासात् । 'सारयसलि' अकलुषमनस्त्वात् । 'पुक्खरपत्तं' प्रतीतम् । 'कुम्मो इव' कच्छपो हि कदाचिदवयवपञ्चकेन गुप्तो भवत्येवमसावपीन्द्रियपश्चकेनेति । 'विहग इव' मुक्तपरिच्छदत्वादनियतवासाच्चेति । 'खग्गविसाणं व' खङ्गःआटव्यो जीवस्तद्विषाणं-शृङ्गं तदेकमेव भवति तद्वद् 'एकजातः' एकभूतः, रागादिसहायवैकल्यादिति । 'भारंडपक्खी' भारुण्डपक्षिणोः किलैकं शरीरं पृथग्रीवं त्रिपादं भवति, तौ चात्यन्ताप्रमत्ततयैव निर्वाहं लभेते इति तेनोपमेति । 'कुंजरो' हस्तीव शूरः कषायादिरिपून् प्रति। 'वसहो' गौरिवोत्पन्नबलः, प्रतिज्ञातवस्तुभरनिर्वाहक इत्यर्थः । 'सीहो इव' परीषहादिभिरनभिभवनीय इत्यर्थः । 'मंदरो' मेरुरिवानुकूलाधुपसगैरविचलितसत्त्वः । 'सागरो' हर्ष-शोकादिभिरक्षोभित्वादिति । 'चंदे इव'' अनुपतापकारिपरिणामः । 'सूरे इव' दीप्ततेजाः, द्रव्यतः शरीरदीप्त्या भावतो ज्ञानेन । 'जच्चकणगं व' जातंलब्धं रूपं-स्वरूपं रागादिकुद्रव्यविरहाद् येन स तथा । 'वसुंधरो' स्पर्शाः-शीतोष्णादयोऽनुकूलेतराः । 'सुहुयहुयासणे' सुष्ठुहुतं-क्षिप्तं घृतादीति गम्यते यस्मिन् स सुहुतः, स चासौ हुताशनश्च-चतिरिति सुहुतहुताशनः, तद्वत्तेजसा-ज्ञानरूपेण तपोरूपेण वा ज्वलन्-दीप्यमानः॥ सूत्रम् १२०-१२१-जंभियग्रामस्य नगरस्य बहिः उज्जुवालिकानद्यास्तोरे। 'वियावत्तस्से'ति चूर्णियथा-"विजयावत्तस्स चेइयस्स' विजयावत्तं नामेणं, 'वियावत्तं वा' व्यावृत्तं चेतियत्तणाओ, जिण्णु जाणमित्यर्थः" । 'कटुकरण' क्षेत्रम् । 'आवीकर्म' प्रकटं कर्म कृतं पगासकयं ति । 'रह:कर्म' प्रछनकृतम् । शेषं कण्ठ्य म्" ॥ सूत्रम् १२२'अंतरावासे वसावासं उवागए' छउमत्थकाले जिणकाले य एए वासारत्ता ४२ संख्याः । 'पणियभूमी' वज्जभूमी । अंतरावासे'त्ति वासारत्तस्याऽऽख्या नाम । उक्तं च-"अंतरघणसामलो भयवं" वर्षाराजघनसम इति । 'पावा' देवेहिं कयं, जेण तत्थ भगवं कालगओ रज्जुका-लेहगा तेषां सभा रज्जुगसभा, अपरिभुज्जमाणा करणशाला ॥ सूत्रम् १२३-कत्तियमासे कालपक्खे चरिमा रयणी अवामसा। कालं-अंतं गतः कालगतः, कायटिंतिकालाद् भवदिइकालाच्च वीइक्कंतो । जाति-जरा-मरणस्स य बंधणं तं छिन्नं । 'सिद्धः' साधितार्थः, 'बुद्धः'ज्ञः, मुक्तो भवेभ्यः, सर्वभावेन निर्वृतः, अन्तकृत सव्वदुक्खाणि-संसारियाणि पहीणाणि सारीराणि माणसाणि य। बिईओ चंदो संवच्छरो, द्वितीयप्रमाणं ३५४ १३ दिन, पीइवद्धणो मासो, नंदिवद्धणो पक्खो, अग्गिवेसो नाम दिवसो उवसमो
१ विश्वेष्वपि चूकॊदर्शेषु टिप्पनकादशेषु च अवामंसा इत्येव पाठो वरीवृत्वते इति सम्भाव्यते "तत्कालीन भाषाविदां 'अमावसा'ऽर्थको 'अबामसा' शब्दोऽपि सम्मतः" इति नात्राशुद्धपाठाशङ्का विधेयेति ॥