________________
१५
लाटानां यद् अड्डपल्यानं तदन्यविषये थिल्लिदेभिधीयते, अतस्तां विकटयानं तलटकवर्जित कटम्, (१), परियानप्रयोजनं पारियानिकम्, सांग्रामिकं - संग्रामयोग्यं कटीप्रमाणफलकवेदिकम् । 'कोश' रस्नादिभाण्डागारम्, विविधधान्यस्थानं कोष्ठागारम्, 'पुरं' सर्व नगरप्रधानस्, 'अन्तःपुरं' प्रतीतम्, 'जनपदं' लोकम् । त्यक्त्वा 'धन-धान्यादि' (दीनि') पूर्वव्याख्यातानि रत्नानि - कर्केतनादीनि मणयः - चन्द्रकान्ताद्याः, मौकिक-ज्ञाः प्रतीताः, शिलाप्रवाल नि-विदुमागि, अन्ये त्वाहुः — शिला : - राजपट्टादिकाः, प्रवाल- विद्रुमम्, रक्तरनानि-पअरागादीनि इत्यादिकं 'संतं' विद्यमानं सारं प्रधानं स्वापतेयं 'विच्छडइत्ता' परित्यज्य, 'विग्गोवइत्ता' प्रकाश्य, अथवा “गुप गोपनकुत्सनयोः " इति वचनात् कुत्सनीयमेतत् अस्थिरत्वादिति व्यक्त्वा, दानं दत्त्वा, 'दायिकान?" दाय:- भागोऽस्त्येषां ते दायिकाः तेषां परिभाज्य । 'पाईगगा मिणीए' प्रतीची पूर्व दिग्गामिन्यां छायायां 'पोरिसीए' पाश्चात्यपौरुभ्यां प्रमाणप्राप्तायामभिनिर्वर्त्त्यमानायाम् । 'संखिय' चन्दनगर्भशङ्खहस्ताः, 'चक्किय' चक्रप्रहरणहस्ताः, नाङ्गलिकाः - गलावलम्बित सुवर्णमयलाङ्गलप्र [ति]कृतिधारिणो भट्टविशेषाः, 'मुहमंगलिय' मुखेन मङ्गलं येषां मङ्गलपाठका इति, 'वद्धमाण' स्कन्धारोपितपुरुषाः, 'पूसमाण' मान्याः घाण्टिकाःघण्टिकया चरन्तीति घाण्टिकाः 'राउलियका' इति । 'ताहि इट्ठाहिं' इत्यादि पूर्ववद् ज्ञेयम् ॥ सूत्रम् ११३ – 'अभिभविय गामकंटए' अभिभूय - अपकर्ण्य 'प्रामकण्टकान् ' दुर्वाक्यजल्पनपरान् । 'मैजु मंजुणा 'घोसेणं' न ज्ञायते कोऽपि किं जल्पतीति । 'सव्विड्ढीए' सर्वर्घा समस्तच्छत्रादिराजचिह्नरूपया, 'सव्वज्जुईए' सर्वत्या आभरणादिसम्बन्धिन्या, सर्वयुत्या वा उचितेष्टवस्तुघटनालक्षणया । 'सव्वबलेणं'ति हत्यवादिना सर्वसैन्येन कटकेनेसि, वाहनानि - करभ - शिबिकादीनि, 'सर्वसमुदायेन' पौरादिमीलकेन, 'सर्वादरेण' सर्वोचितकृत्यकरणरूपेण, 'सम्बविभूईए' सर्वसम्पदा, 'सव्वविभूसाए' समस्तशोभया, 'सव्वसंभमेण' प्रमोदकृत्योत्सुक्येन, 'सर्वसङ्गमेन' सर्वजन मेलापकेन, 'सव्वपराईहिं' अष्टादशनैगमादिनगरवास्तव्यप्रकृ त्तिभिः, 'सम्वना - डएहिं' इत्यादि सुगमम् । ‘सव्वतुडिय' सर्वतूर्यशब्दानां मीलने यः सङ्गतो निनादः - महाघोषः स तथा तेन । अल्पेष्वपि ऋद्धयादिषु सर्वशब्दप्रवृत्तिर्दृष्टा इत्यत आह- 'महया इड्ढीए महया जुईए' इत्यादि । 'जमगसमगं जाव' यमकसमकं युगपदित्यर्थः । 'शङ्खपणव' पूर्ववत् ॥ सूत्रम् ११६'दुवालस वासाई नि वोसटुकाए' व्युत्सृष्टकायः परिकर्मवर्जनतः, 'चियत्तदेहे' व्यक्तदेहः परीषहादिसहनतः, 'जे केइ उवसग्गा उप्पज्जेति ते सम्मं सहइ' तानुपसर्गान् सहते क्षमते तितिक्षते अधिसहते || सूत्रम् ११७ – 'अणगारे जाए जाव अलोभे त्ति सुगमम् परं 'गुतिदिए' स्वविषयेषु रागादिना इन्द्रयाणामप्रवृत्तेः 'गुत्तबंभयारी' गुप्तं - नवभिर्ब्रह्मचर्य गुप्तिभी रक्षितं मैथुनबिरमणं चरतीति सः । 'संते' शान्त उपशमेन, 'प्रशान्तः' इन्द्रियमोइन्द्रियैः, 'उवर्सते' उपशान्तः क्रोधाद्यकरणेन, 'परिनिर्वृतः " सर्वसङ्गपरियागतः, 'अणासवे' सप्तदशाश्रवाभावतः, "चावारिम" इत्यादि । 'अममे' अविद्यमानममेत्यभिलाषः मिर
"
१ गल्लिरमि • प्राथन्तरे ॥
२ पवार विरतणं पञ्चेन्द्रियः कषायजयः । दण्डश्रर्यावर तिबेति सुयमः सप्तदशमेदः ॥ १७२ ॥
इति सम्पूर्ण कारिका प्रशमरती ॥