SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ निश्चयम् ॥ सूत्रम् ५३-आरोग्य-नीरोगता, तुष्टिः-हृदयतोषः, दीर्घायुः-आयुषो वृद्धिः, कल्याणानि-अर्थप्राप्तयः, मङ्गलानि-अनर्थप्रतिघाताः। 'तिसिलिं खत्तियाणि जाब सुमिणा दिवा' । अर्थलाभो भविष्यतीति शेषः। 'अम्हं कुलकेऊ' केतुः चिह्न ध्वज इत्यनान्तरम, केतुरिव केतुरभुतत्त्वात् , कुलस्य केतुः कुलकेतुस्तम् , एवमन्यत्रापि। 'कुलदोष दीप इव दीपः प्रकाशकत्वात्। कुलपब्वयं'कुलपर्वतोऽनभिभवनीयस्थितिराश्रयसाधात् । 'कुलवडिंसर्य' कुलावतंसकः-शेखर उत्तमत्वात्।'कुलतिलय तिलक:-विशेषकः भूषकत्वात् । 'कुलकित्तिकर' इह कीर्ति रेकदिग्यामिनी प्रसिद्धिः। 'कुलदिणयर' कुलस्य दिनकरः कुलप्रकाशकत्वात्। 'कुलाहारं' कुलस्याधारः कुलाधारः पृथ्वीवत् 1 'कुलविवरणकर' विविधैः प्रकारैर्वर्द्धन धन-धान्य-पुत्र-कलत्र-मित्र-हस्त्यश्वादिभिरिति । 'कुलनंदिकर समृद्धिहेतुत्वात् । 'कुलजसकर' सर्वदिग्गामिकप्रसिद्धिविशेषः 'कुलपायवं' पादप आश्रयणीयच्छायत्वात् तत्करणशीलम् । 'सुकुमाल' सुकुमालौ पाणि-पादौ यस्य तम्। 'अहीणपुन्नपंचिंदिय' अहीनानि-स्वरूपतः पूर्णानि-संख्यया पुण्यानि-पूतानि वा पञ्चेन्द्रियाणि बस्य तत् तथा, तदेवंविधं शरीरं यस्य तम् । तथा 'लक्खणवंजण'त्ति लक्षणानि-स्वस्तिकादीनि व्यञ्जनानि-मपतिलकादीनि तेषां यो गुणःप्रशस्तता तेनोपेतः-युक्तो यः स तथा तम् । अथवा सहज लक्षणम् , पश्चाद्भवं व्यञ्जनमिति, गुणाःसौभाग्यादयः लक्षणव्यञ्जनानां वा ये गुणास्तैरुपेतं-युक्तं यं तं तथा । 'मानोन्मान' तत्र मान-जलदोणमानता, जलभृतकुण्डिकायां हि मातव्यः पुरुषः प्रवेश्यते, तत्प्रवेशे च यज्जलं ततो निःसरति तद् यदि द्रोणमानं भवति तदाऽसौ मानोपेत उच्यते । उन्मानं तु-अर्द्धभारमानता, मातव्यपुरुषो हि तुलारोपितो यद्यर्द्धभारमानो भवति तदा उन्मानोपेतोऽसावुच्यते । प्रमाण पुनः-स्वाङ्गुलेनाष्टोत्तरशताङ्गुलोच्छमता । बदाहजलदोणमद्धभारं, समुहाई समूसिली उ जो मथ उ । माणुम्माणपमाणं, तिविहं खलु लक्खणं एवं ॥१॥ स्वमुखानि द्वादशाङ्गुलप्रमाणानि नवमिर्गुणितान्यष्टोत्तरं शतमजलानां भवति। शेषपुरुषलक्षणमेतत् , तीकरास्तु विंशताङ्गुलशतमाना भवन्ति। तैः परिपूर्ण लक्षणादिभिरिति। अतः सुजातसर्वाङ्गसुन्दराङ्गम् । ससिसोमाकार “कान्तंच' कमनीयं तम् । अत एव प्रियं द्रष्ट्रणां दर्शन-रूपं यस्य स तथा तम्। 'दारकं' पुत्रं जनिष्यसे । सूत्रम् ५४-से विय णं' स चासो दारक उन्मुक्तबालभावः 'विनय विज्ञ एव विज्ञकः परिणतमात्रश्च कलादिग्विति गम्यते विज्ञकपरिणतमात्रः। यौवनमनुप्रातः शूरः' दानतोऽभ्युपेतनिर्वाहणतो वा, धीरः'परैरक्षोभ्यः, 'वीरः' संमामतः,'विकान्तः परकीयभूमण्डलाक्रमणतः। 'विच्छिन्नविपुलबलवाहणे' विस्तीर्णविपुळे-अतिविपुले बल-वाहनेसैन्य-गवादिके यस्य स तथा । 'रजवइत्ति राज्यपतिः स्वतन्त्रमित्यर्थः भविष्यतीति ॥ सूत्रम् ५५सा एवं श्रुत्वा जाव एव वयासी ॥ . सूत्रम् ५६–'एवमेयं' एवमेतत् स्वामिन् ! अवैतद् यूयं वदत । 'तहमेयं तथैतद्विशेषः । 'अवितहमेयं सत्यमेतदित्यर्थः । 'असंदिद्धमे सन्देहवर्जितमेततू । 'इच्छियमेय' इष्टमेतत् । 'पडिच्छियमेय' प्रतीप्सितं प्राप्तुमिष्टम् । 'इच्छिय-पडिच्छियमेय' युगपदिप्सा-प्रतीसाविषयत्वात , 'इच्छियपडिच्छिय वा' उभयधर्मयोगाद् अत्यन्तादरख्यापनाय वा स्वामिन् ! । राज्ञा मुत्कलिता स्वशयनीये उपागच्छति । एवं क्यासी ॥ सूत्रम् १७-मम एते स्वप्ना इत्यर्थः 'उत्तम'त्ति स्वरूपतः 'पहाण'त्ति अर्थप्राप्तिरूपप्रधानफलतः 'मंगल'त्ति अनर्थप्रतिघातरूपफळापेक्षयेति स्वप्ना इति अन्यः
SR No.032597
Book TitlePavitra Kalpasutra
Original Sutra AuthorN/A
AuthorPunyavijay, Bechardas Jivraj Doshi, Sarabhai Manilal Nawab
PublisherSarabhai Manilal Nawab
Publication Year1952
Total Pages458
LanguageGujarati
ClassificationBook_Gujarati & agam_kalpsutra
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy