________________
पापस्वप्नैः प्रतिहनिष्यन्ति इति कृत्वा देवगुरुजनसम्बद्राभिः प्रशस्ताभिर्मङ्गल्याभिर्धार्मिकाभिः 'लष्टाभिः' मनोज्ञाभिः कथाभिः 'सुविणजागरिय' स्वप्नसंरक्षणाय जागरिका-निदानिषेधः स्वप्नजागरिका तां पडिजागरमाणी' प्रतिजाग्रती कुर्वतो आभीण्ये च द्विर्वचनं 'विहरति' आस्ते स्म ॥ सूत्रम् ५८-'तएणं से सिद्धत्थे जाव बाहिरियं उवहागसालं' 'कौटुम्बिकपुरुषान्' आदेशकारिणः शब्दयति । 'गंधोदय' सुगन्धोदकेन सिक्ता शुचिका-पवित्रा सम्मार्जिता-कचवरापनयनेन उपलिता-छगणादिना या सा तथा ताम् , इदं च विशेषणं 'गन्धोदकसिक्तसम्मार्जितोपलिप्तशुचिकाम्' इत्येवं दृश्यम् , सिक्तावनन्तरमावित्वात् शुचिकत्वस्येति। 'सुगंधवरपंचवन्नपुष्फोवयारकलिय'मित्यादि पूर्ववद् व्याख्येयम् ॥ सूत्रम् ६०-'कलं पाउप्पभायाए' 'कल्लं'ति श्वः प्रादुः-प्राकाश्ये, ततः प्रकाशप्रभातायां रजन्याम् । 'फुल्लोत्पलकमलकोमलोन्मीलिते' फुल्लं-विकसितं तच्च तदुत्पलं च फुल्लो पलम् , तच्च कमलश्च-हरिणविशेषः फुल्लो पलकमलौ तयोः कोमलं-अकठोरमुन्मीलितं-दलानां नयनोयोश्चोन्मीलनं यस्मिस्तत्तथा तस्मिन् । अथेति रजनीविभातानन्तरं पाण्डुरे रक्ताशोकप्रकाशे किंशुकस्य शुकमुखस्य गुजार्द्धस्य एवं 'बन्धुजीनादि जाव हिंगुलयनियरातिरेयरेहतसरिसे' एकार्थान्येतानि, एतेषां रागेण सदृशो यः स तथा तस्मिन् । तथा कमलाकराः-इदादयस्तेषु षण्डानि-नलिनी षण्डानि तेषां बोधको यः स कमलाकरषण्डबोधकस्तस्मिन् । 'उस्थिते' अभ्युद्गते, कस्मिन् ? इत्याह-सूरे । पुनः किम्भूते ! इत्याह-सहस्सरस्सिम्मि ॥ सूत्रम् ६१-'तस्स य करपहारपरद्धम्मि अंधकारे जाव अट्टणसालं' सुगमम् । 'अट्टणसाल'त्ति व्यायामशाला । 'अणेगवायाम' तत्र च अनेकानि व्यायामार्थ यानि योग्यादीनि तानि तथा तैः । तत्र योग्या-गुणनिका, वल्गनमुल्लङ्घनम् , व्यामर्दनं-परस्परेणाङ्गमोटनम् । सयं वाराओ पक्कं जं तं सयपागं, सएंण वा काहावणाणं पागो। 'पीणणिज्जेहिंति रसाइधातुवसमकारीहिं 'दीवणिज्जेहिं' अग्गिजणणेहिं 'दप्पणिज्जेहि बलकरहिं मंस-ऽटिवद्धणेहिं तिप्पणिज्जेहिं' मंसोवचयकरहिं । छेया-बावत्तरीकलापंडिया, दक्खा-अविलंबियकारी, पत्तट्ठा-वाग्मिनः, निउणा-क्रीडाकुशलाः ॥ सूत्रम् ६२शुद्धोदकं उष्णोदकम् । 'पम्हलसुकुमालाए' पक्ष्मवत्या सुकुमालया चेयर्थः, गंधकासाइय' गन्धप्रधानया कषायरक्तशाटिकयेत्यर्थः । 'नासानीसास' नासानिःश्वासवातवाह्यमतिलघुत्वात् चक्षुहर लोचनानन्ददायकत्वात् चर्गेवकं वा घनत्वात् , 'वण्णफरिस' प्रधानवर्णस्य स्पर्शमित्यर्थः, हयलालायाः सकाशात् पेलवंमृदु अतिरेकेण-अतिशयेन यत्तत्तथा। कनकेन खचितं-मण्डितं अन्तयोः-अञ्चलयोः कर्म-वानलक्षणं यस्य तत्तथा तेन दृष्यरत्नेन संवृतः । 'हा'ति अष्टादशसरिकम्, अर्द्धहारं-नवसरिकम् । एवं जहा सूरियाभस्स अलंकारे तहेव । स चैवम्- “एगावलि पिणद्धे" इत्यादि सूत्रम् (राजप्रश्नीय० १३७ पत्र
१ अत्र टिप्पनककृता राजप्रश्रीयोपाङ्गानुसारिवाचनाभेदमनुसृत्य टिप्पितं ज्ञायते, सच वाच. नाभेद एवंरूपः स्यात्-"नासानीसासवाययोज्झ-बक्खुहर-वनफरिसजुत्त-हयलालापेलवातिरेगधवल-कणगखचियंतकम्मदुसरयणसंवुए इति । नैष वाचनाभेदोऽस्माभिरुपलब्धः ॥
. 'चुडामणि म सकलपार्थिवरत्नसमारो देवेन्द्रमनुष्येन्द्रमूर्धकृतनिवासो निश्शेषामङ्गलाशान्तिरोगप्रमुख. दोषापहारकारी प्रवरलक्षणोपेतः परममजलभूत आभरणविशेषः ।" इति राजप्रश्नीयवृत्तौ पत्र २५२ ॥