________________
तत्र । 'गंधवटिति सौरभ्यातिशयात् सद्गन्धव्यगुटिकाकल्पे । 'तसि तारिसगंसित्ति । 'सहालिङ्गनक्त्या' शरीरप्रमाणेन गण्डोपधानेन यत्तत्र । 'उभओ विबोयणे' 'उभयतः-शिरोन्तपदान्तावाश्रित्य विब्बोयणेउपधानके यत्र तत्तथा । 'उभो उन्नए' उभयतः उन्नते । 'मज्झेणय' मध्ये नतं च-निम्नं गंभीरं च महत्त्वाद् यत्तत्र, अथवा 'मध्येन च' मध्यभागेन च गम्भीरम् । 'पन्नत्तगविब्बोयण'त्ति क्वचिद् दृश्यते, तत्र च सुपरिकर्मितगण्डोपाने इत्यर्थः । · गंगापुलिण' गङ्गापुलिनवालुकाया योऽअदाल:-अवदलनं पादादिन्यासे अधोगमनमित्यर्थः तेन सदृशकं अतिनम्रत्वाद् यत्ततथा तत्र, दृश्यते च हंसतूल्यादीनामयं न्याय इति । 'ओभवियं' परिकर्मितं यत् क्षौमिकं दुकूलं-कार्यासिकमतसीमयं वा वस्त्रं तस्य युगलापेक्षया यः पट्टःशाटकः स प्रतिच्छादनं-आच्छादनं यस्य तत् तथा तत्र । 'सुविरइय' सुष्टु विरचितं रजत्राण-आच्छादनविशेषो अपरिभोगावस्थायां यस्मिंस्तत् तथा तत्र । 'रचंसुअ' रक्तांशुकसंवृते-मशकगृहाभिधानवस्त्रविशेषावृते। 'आईग' आजिनक- चर्ममयो वस्त्रविशेषः, स च स्वभावादतिकोमलो भवति, रूतं च-कर्पासपक्ष्म, बूरंवनस्पतिविशेषः, नवनीतं-म्रक्षणम् , तूलं च-अर्कतूलमिति द्वन्द्वः, एतेषामिव स्पर्शो यस्य तत्तथा तत्र । 'सुगंधवरकुसुम' सुगन्धीनि यानि वरकुसुमानि चूर्णाः-एतद्यतिरिक्तास्तथाविधशयनोपचाराश्च तैः कलितं यत्तत्तथा तत्र ।' अडढरत्त' समयः समाचारोऽपि भवतीति कालेन विशेषितः, कालरूपः समयः, स चार्द्धरात्रोऽपि भवतीति अतो अर्द्धरात्रशब्देन विशेषितः, ततश्चार्द्धरात्ररूपः कालसमयोऽर्द्धरात्र काल]समयः, स च पूर्वरात्रकालोऽपि भवति अत एवापररात्रे, तत्र स्वप्नस्य सद्यःफलत्वात् तत्र । 'सुत्तजागरा' नातिसुप्ता नातिजागरेति भावः । किमक्तं भवति ! 'ओहोरमाणी' प्रचलायमाना'ओरालानि' प्रधानानि 'कल्याणाने' श्रेयस्कारीणि 'शिवानि अनुपद्रवकारीणि 'धन्यानि धर्मवनप्रापकानि, मङ्गल्यविधायकानि मङ्गल्यानि हितार्थप्रापकानोति वा । 'गयवसहे'त्यादि ॥ सूत्रम् ४९-५१-~'अतुरिय' देहमनश्चापल्यरहितं यथा भवत्येवं 'असमंताए' अनुत्सुकया अविलम्बितया 'रायहंससरिसीए' राजहंससदृशया इत्यर्थः 'जेणेव सिद्धत्थे जाव निसीयई' । 'आसत्था' आश्वस्ता गतिजनितश्रमाभावात् । 'वीसत्था' विश्वस्ता सङक्षोभाभावादनुत्सुका । 'सुहासण' सुखेन वा सुखं वा शुभं वा आसनवरं गता या सा तथा । 'सिद्धत्थं जाव फलविसेसे भविस्सई' ॥ सूत्रम् ५२-'एयमह्र सोच्चा हृदुतुह' हृष्टतुष्टः अत्यन्तं हृष्टं वा तुष्टं वा विस्मितं चित्तं यस्य सः । आनन्दितः-देषन्मुखसौम्यतादिभावैः समृद्धिमुपगतः । ततश्च 'नंदिये' त्ति नन्दितस्तैरेव समृद्धतरतामुपगतः । 'पीइमणे' प्रीतिः-प्रीणनं मनसि यस्य सः । 'परमसोमणसिए' परमं सौमनस्य-सुमनस्कतासञ्जातं मनो यस्य सः । 'धाराहय धाराहतनीपः-कदम्बः सुरभिकुसुममिव 'चंचुमालइए'त्ति पुलकिता तनुः-शरीरं यस्य स तथा । किमुक्तं भवति ! 'ऊसवियरोम' उच्छ्वसितानि रोमाणि कूपेषु-तदन्धेषु यस्य स तथा.। 'मइपुत्वेणं आभिनिबोधिकप्रभवेन 'बुद्धिविन्नाणेणं' बुद्धिः-प्रत्यक्षदर्शिका विज्ञानं-अतीतानागतवस्तुसूचकं तेन, मतिविशेषभूतोत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेन । 'अत्थोग्गहणं' फल
१ "धाराहयनीषसुरहिकुसुमचंचुमालइए ऊसवियरोमकवे" इति पाठः टिप्पनसम्मतः ॥