________________
किं गम्भाओ गम्भं साहरइ.१ गभाओ जोणिं साहरइ २ जोणीओ गम्भं साहरइ ३ जोणीओ जोणिं, साहरइ ४ नो गन्माओ गभं साहरइ, नो गभाओ जोणिं साहरइ, परामुसिय परामुसिय अव्वाबाहं अव्वाबाहेणं जोणीओ गम्भं साहरइ, नो जोणीओ जोणिं साहरइ । पहू णं भंते ! हरिणेगमेसी सक्कदूए इत्थीगभं नहरि रस वा रोमकूर्वसि वा साहरित्तए वा नीहरित्तए वा! हंता पहू, नो चेव णं तस्स गब्भस्स आबाहं वा विबाहं वा उप्पाइज्जा छविछेयं पुण करिज्जा एसुहुमं च णं साहरिज्ज वा नीहरेज्ज वा (श० ५ उ०४ सू० १८७ पत्र २१८) ॥ व्याख्या-तत्र 'हरिः' इन्द्रस्तत्सम्बन्धित्वाद् हरिः, नैगमेषी नाम 'सक्कदूए' शकदूतः शकादेशकारी पदात्यनीकाधिपतिः येन शक्रादेशाद् भगवान् महावीरो देवानन्दागर्भात् त्रिशलागर्भ संवत इति । 'इत्थीगभ'ति स्त्रियाः सम्बन्धी गर्भः-सजीवपुद्गलपिण्डकः स्लोगर्भस्तं 'संहरमाणे' अन्यत्र नयन् । इह चतुर्भलिका-तत्र 'गर्भाद्' गर्भाशयादवधेः 'गर्भ' गर्भाशयान्तरं 'संहरति' प्रवेशयति 'गर्भ' सजीवपुद्गलपिण्डलक्षणमिति प्रकृतमित्येकः १ । तथा 'गर्भाद् अवधेः 'योनि' गर्भनिर्गमद्वारं संहरति, योन्या उदरान्तरं प्रवेशयतीत्यर्थः २। तथा 'योनीतः' योनिद्वारेण निष्काश्य 'गर्भ संहरति' गर्भाशयान्तरं प्रवेशयति ३ । तथा 'योनीतः' योनेः सकाशाद् योनि 'संहरति' नयति, योन्या उदरान्निष्काश्य योनिद्वारेणैवोदरं प्रवेशयतीत्यर्थः ४ । एतेषु शेषनिषेधेन तृतीयमनुजानन्नाह'परामुसिय परामुसिय' परामृश्य परामृश्य-तथाविधकरणव्यापारेण संस्पृश्य संस्पृश्य स्त्रीग: 'अव्याबाधमव्याबाघेन सुखं सुखेनेत्यर्थः 'योनीतः' योनिद्वारेण निष्काश्य 'गर्भ' गर्भाशयं संहरति गर्भमिति प्रकृतम् । यच्चेह योनीतो निर्गमन स्त्रीगर्भत्योक्तं तल्लोकव्यवहारानुवर्तनात् , तथाहि-निष्पन्नोऽनिष्पनो वा गर्भः स्वभावाद् योन्यैव निर्गच्छति । अयं च तस्य गर्भसंहरणे आचार उक्तः। अथ तत्सामध्ये दर्शयन्नाह-'पभू णं नहसिरंसि वा' नखाने 'साहरित्तए' संहत्त-प्रवेशयितुं 'नोहरित्तए' विभक्तिपरिणामेन नखशिरसो रोमकूपाद्वा नीहत-निष्काशयितुम् । 'आबाह' ईषद्बायां 'विवाहति विशिष्टबाधाम् । 'छविछेय'ति शरीरच्छेदं पुनः कुर्यात् , गर्भस्य हि छविच्छेदमकृत्वा नखाग्रादौ प्रवेशयितुमशक्यत्वात् । 'एसुहुमं च णं' इतिसूक्ष्ममिति-एवं लध्विति ॥ सूत्रम् ३०-'हिताणुकंपएणं' हितः शक्रस्य आत्मनश्च, अनुकम्पको भगवतः । अत्र चूर्णिः--"हिओ सक्कस्स अप्पणो य, अणुकाओ भगवओ ॥" सूत्रम् ३१-तिन्नाणोषगए. साहरिग्जिस्सामि' इत्यादि व्यवनवद् ज्ञेयम् ॥ सूत्रम् ३३- 'तंसि तारिसगंसि' तस्मिंस्तादृशकेवक्तुमशक्यस्वरूपे पुण्यवतां योग्य इत्यर्थः । अभितरओ सचित्ते' चित्रकर्मयुक्ते भित्तिभागे बाहिरओ 'दूमित' धवलितं 'घ' घृष्टं कोमलपाषाणादिना अत एव 'मट्ट' मसृणं यत्तथा तस्मिन् । 'विचित्तउल्लोय' विचित्र:-विविधवित्रयुक्तः उल्लोकः-उपरिभागो यत्र चिल्लिय-दीप्यमानं तलं वा-अधोभागो यत्र तत्तथा। 'मणिरयण' मणिरत्नप्रणाशितान्धकारे । 'बहुसमत्ति पञ्चवर्णमणिकुमकलिते । 'पंचवन्न'त्ति पञ्चवर्णेन सरसेन सुरभिणा च मुक्तेन-निक्षिप्तेन पुष्पपुञ्जलक्षणेनोपचारेण-पूजया कलितं यत् तत् तथा तत्र । 'कालागुरु' कालागुरुप्रभृतीनां धूपानां यो मघमघायमानो गन्ध उद्धृतस्तेनाभिराम-रम्यं यत् तत् तथा तत्र । कुंदुरक-चीडा तुरुष्क-सिल्हकं 'सुगंधि'त्ति सुगन्धयः सद्गन्धाः प्रवरवासाः सन्ति यत्र तत्तथा