________________
४
पुटकावनद्धमुखो वाद्यविशेषः, पणवः- भाण्डपटहो लघुपरहो वा तदन्यस्तु पटह इति, 'भंभत्ति ढक्का, 'होरंभ'त्ति रूढिगम्या, 'भेरी' म्हाढक्का, 'झल्लरि'ति वलयाकारो वाद्यविशेषः, 'दुन्दुभि'त्ति देववायविशेषः, अथोक्तानुक्तसंग्रहद्वारेणाह - ततानि - वीणादिकारी, तजनित शब्दा अपि तताः एवमन्यदपि पदत्रयम्, नवरमयं विशेषस्ततादीनाम् - "ततं वीणादिकं ज्ञेयं १, विततं पटहादिकम् २ | धनं तु कांस्यतालादि ३, यदि शुषिरं मतम् ४ ॥ १ ॥ तथा तन्त्री - वीणा, तलतालाः - हस्ततालाः, तला वा हस्ताः ताला :- कांसिकाः, 'तुडिय'ति शेषतूर्याणि तथाकारो ध्वनिसाधर्म्याद् यो मृदङ्गः - मर्दः पटुनाइः - दक्षपुरुषेग प्रवाद्यत इति, एतेषां द्वन्द्वः, अत एषां रवः स तथा तेन । 'भोगभोगाईं 'ति भोगार्हान् भोगान्-शब्दादीन् भुञ्जानो विहरति स्म ॥ सूत्रम् १५ – 'केवलक पंति केवलः - परिपूर्णः कल्पत इति कल्पः - स्वकार्य करणसमर्थः, अथवा केवलकल्पः - केवल ज्ञानसदृशः परिपूर्णतासाधर्म्यात् । 'कडय'त्ति कटकानि - बाहुवलकानि, त्रुटिका :बाहुरक्षकाः, केयूराणि - अङ्गदाः बाहुमूलविभूषणानि, मुकुट :- शिरोविभूषणम्, कुण्डलानि - कर्णाभरणानि, हारा:- मुक्तामया अष्टादशस रिका दयः ॥ सूत्रम् १७ - ' उग्गकुलेसु वत्ति उग्राः - आदिकरस्था पिंता आरक्षकवंशजाताः, भोगाः - तेनैव स्थापित गुरुवंशजाताः, राजन्याः - भगवद्वयस्यवंशजाः, क्षत्रियाः -राजकुलीनाः, इक्ष्वाकाः– इक्ष्वाकुवंशजाः, हरिवंशस्तु - हरिवर्षादानीतयुगल प्रभवः । 'अन्यतरेषु वा तथाप्रकारेषु विशुद्धजातिकुलवंशेषु' इति भणनाद् भटाः- शौर्यन्तः, योगः - तेभ्यो विशिष्टतराः, मल्लकिनो लेच्छ किनश्च - राजविशेषाः, राजानः- नृपाः, ईश्वराः -युवराजादयः, तदन्ये च महर्दिकाः, तलवराः - प्रतुष्ट नरपतिवितीर्णपट्टबन्धविभूषिता राजस्थानीयाः, माण्डविकाः- सन्निवेशनायकाः, कोडुम्बिका:- कतिपयकुटुम्ब प्रभवो राजसेवकाः ॥ सूत्रम् २६ - हरिणेगमेषीति ज्ञेयम्, 'वेउब्वियसमुग्धाएणं' ति वैक्रियकरणाय प्रयत्नविशेषेण 'समोहनइ' समुपहन्यते - समुपहतो भवति समुपहन्ति वा प्रदेशान् विक्षिपतीति । तत्स्वरूपमेवाह—‘संखे जाईं'ति दण्ड इव दण्डः - ऊर्ध्वाधआयतः शरीरबाहल्यो जीवप्रदेश-कर्म पुद्गलसमूहः । तत्र च विविधपुद्गलानादत्ते इति दर्शयन्नाह - तद्यथा, 'रेत्नानां' कर्केननादीनाम् । इह च यद्यपि रत्नादिपुद्गला औदारिकाः वैकियसमुद्घाते च वैक्रिया एव ग्राह्या भवन्ति तथापीह तेषां रत्नादिपुद्गलानामिव सारताप्रतिपादनाय रत्नानामित्युक्तम्, तच्च रत्नानामिवेत्यादि व्याख्येयम् । अन्ये त्वाहुः - औदारिका अपि ते गृहीताः सन्तो वैक्रियतया परिणमन्तीति । यावत्करणादिदं दृश्यम् - - ' वइराण' मित्यादि । किम् ? अत आह— 'अहाबायरे' यथाबादरान्-असारान् पुद्गलान् परिशातयति दण्डनिसर्ग गृहीतान् । यच्चोक्तं प्रज्ञापना कायाम् - "यथास्थूला 'वैकियपुद्गलान्' वैक्रियशरीर नामकर्मपुद्गलान् प्राग्बद्वान् शातयति" (समु० पद ३६ पत्र ५६० ) इति तत् समुद्घातशब्दसमर्थनार्थमनाभोगिक वैकियशरीरकर्मनिर्जरणमाश्रित्येति । 'अहासुहुमे'त्ति यथासूक्ष्मान 'परियाई 'त्ति पर्यादत्ते, दण्डनिसर्गगृहीतान् सामस्त्येनादत्त इत्यर्थः ॥
सूत्रम् २७ – 'दोच्चं पि' द्वितीयमपि वारं समुद्धातं करोति चिकीर्षितरूपनिर्माणार्थम् । 'कुच्छिसि ० साहरइ' गब्भसाहरणसूत्रं मगवतीसम्बन्धि यथा - हरी णं भंते ! नेगमेसी सक्कदूए इत्थीन्भं साहरमाणे
२ "रयाणणं जाव अहाबायरे" इति सूत्रपाठः टिप्पनककृतां सम्मतः ॥