________________
३
1
ज्ञानार्था धातव इति । 'बंभन्नएसु' ब्राह्मणसम्बन्धिषु 'परिव्वाययेसु' 'परित्राजकसत्केषु 'नीतिषु' दर्शनेष्वित्यर्थः, 'सुपरिनिट्टिए 'ति सुष्ठु निष्ठां प्राप्तः सुशिक्षित इत्यर्थः भविष्यतीति ॥ `सूत्रम् १३ – “ तेण कालेण'मित्यादि पूर्ववत् । "सक्के देविंदे' देवानामिन्द्रः, “इदि परमैश्वर्ये" इति वचनाद् इन्दनादिन्द्रः, "इन्देरकू" ) औणादिकः प्रत्ययः । ' देवराया' देवानां राजा, "राज दीप्तो" । 'वज्जपाणी' वज्रं पाणौ प्रहरणं यस्य सः । ' पुरन्दरे' असुरादिपुराणां दारणात् पुरन्दरः । 'सतक्कतू' 'शर्त ऋतूनां - प्रतिमानामभिग्रहविशेषाणां श्रमणोपासक पञ्चमप्रतिमा रूपाणां वा कार्तिकश्रेष्ठिभवापेक्षया यस्यासौ शतकंतुः । 'सहस्सक्खे' सहस्रमक्ष्णां यस्यासौ सहस्राक्षः, इन्द्रस्य किल मन्त्रिणां पञ्चशतानि सन्ति, तदीयानां चाक्ष्ण - मिन्द्र प्रयोजनव्यापृततयेन्द्रसम्बन्धित्वेन विवक्षणात् स सहस्राक्षः । 'मघवं' मघाः - मेघास्ते यस्य वशे सन्त्यसौ मघवा । 'पागसासणे' पाको नाम बलवान् रिपुस्तं शास्ति - निराकरोति स पाकशासनः । ' दाहिणड्ढयोगा हिवई 'त्ति दक्षिणार्द्धलोकाधिपतिः । 'बत्तीसविमाणसय सहस्साहिवई' द्वात्रिंशद् : विमानशतसहस्राः - लक्षा इति तेषामधिपतिः । ' एरावण 'त्ति ऐरावणो वाहनं यस्य सः । सुरेन्द्र इति । ' अरयंबरवत्थधरे' अरजांसि च तानि अम्बरवस्त्राणि च स्वच्छतया आकाशकल्पवसनानि अरजोऽम्बरवखाणि तानि धारयति यः सः । 'आलइअमालमउडे' आलगितमालं मुकुटं यस्य स तथा । 'नवहेमचारुचित्त'त्ति नवाभ्यामिव हेम्नः सत्काभ्यां चारुचित्राभ्यां चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानो गण्डौ यस्य स तथा । 'महढिए' महाऋद्ध्या समस्तच्छत्रादिराजचिह्नरूपया । 'महज्जुईए' महाद्युत्या आभ -रणादिसम्बन्धिन्या । सर्वजुत्या वा- उचितेष्टवस्तुघटनालक्षणया ॥ सूत्रम् १४ – 'सामाणिय'त्ति स्वमानया - इन्द्रतुल्यया ऋद्ध्या चरन्तीति सामानिकाः । ' तायत्तीसाए 'ति त्रयस्त्रिंशतः 'तायत्तीसगाणं' मन्त्रिकल्पानाम् । 'लोगपालाणं' ति सोम-यम- वरुण-वैश्रमणानाम् । 'अग्गमहिसीणं 'ति पौलोमी - शचीप्रमुखाणाम् । सपरिकरणां 'तिन्हं परिसाणं' । 'सत्तहँ अणियाणं' गान्धर्विक नाट्या ऽश्व रथ हस्ति-भटवृषभानीकानाम्, एषामनीकाधिपानां च । 'चउण्हं चउरासीणं आयरक्ख'त्ति आत्मरक्षाः - अङ्गरक्षस्थानीयाः । 'अन्नेसि' इत्यादिकानां 'आहेवचं' आधिपत्यं - अधिपतिकर्म । 'पोरेव' पुरोवर्तित्वं- अप्रगामित्वम् । ‘स्वामित्वं' स्वामिभावम्। ‘भर्तृत्वं' पोषकत्वम् । 'महत्तरगत्तं महान्तं (महद् ) गुरुत्वम्, तरशब्दो गुरुत्वख्यापकः। आणेसरत्तं-आज्ञेश्वरस्य- आज्ञाप्रधानस्य सतः यत् सेनाधिपत्यं तत् तथा । कारयन् अन्यैः पालयन् 'स्वयमिति । 'मेहयाहय'त्ति आहतमहता वेणमिति, अथवा 'भय'त्ति अहतानि - अव्याहतानि नाट्य-गीतचादितानि, आहतेभ्यः - मुख - हस्त - दण्डादिभिः शङ्ख-पटह-मर्यादिभ्यो वैद्यविशेषेभ्यः आकुट्यमानेभ्यो वा, शङ्खाः- प्रतीताः, शङ्खिका-हस्वशः, खरमुहिका - काहली, पोया-महती काहला, पिरिपिरिया-कोलिक
9: “महयाहयनहगीयवादयसंखसंखियखर मुद्दीपोयापिरिपिरियापणव पडहभंभा होरं भभेरी झारीदुहितावित घणसिरतंतीतलताल तुडिय मुइंग पहुनाइयर वेण” इति पाठानुसारेण टिप्पनककृंता व्याख्यातमाभाति, नोपलब्धोऽयं एतत्समो वा पाठः क्वचिदप्यादर्श अन्यत्र जीवाभिगमादावपि चेति ॥
२ पावित्रवि- ६० ।। ३-ला, बुक्का-महती इं० ॥