________________
आचाराङ्गवृत्तौ यथा- आन्तमहर्त्तिकत्वाच्छाद्मस्थिकज्ञानोपयोगस्य य्यवनकालस्य च सूक्ष्मत्वादिति । सूत्रम् ( श्रुत० २ चू० ३ पत्र ४२५ ) । चुए मि त्ति जाणइ, तिनाणोवगओ होत्था जम्हा ॥ ४ - ' जं स्यणि 'ति जं स्यणि सा देवाणंदा माहणी सुंत्तजागरा ओहीरमाणी किमुक्तं भवति ? प्रचलाय-माना तृतीयनिद्रावशगा चतुर्दश स्वप्नानि पश्यति ॥ सूत्रम् ६–तानि दृष्ट्वा 'हट्ठतु चित्तमाणे'दिया' हृष्टतुष्टं अत्यर्थं तुष्टम् हृष्टं वा - विस्मितं तुष्टं च-तोषवच्चित्तं यत्र तत् तथा, तद् यथा भवत्येवं आनन्दिता - ईषन्मुखसौम्यतादिभावैः समृद्धिमुपगता । ततश्च 'नन्दिता' समृद्धतरतामुपगता 'पीइमणा' प्रीतिःप्रीणनमाप्यायनं मनसि यस्याः सा प्रीतिमनाः । ' परमसोमणसियत्ति 'परमसौमनस्यं' सुष्ठु - सुमनस्कतासञ्जातं मनो यस्याः सा परमसौमनसिता । 'हरिसवस' त्ति हर्षवशेन विसर्पद् - विस्तारयायि हृदयं यस्याः सा तथा । मेघघाराभ्याहतकदम्बपुष्पमिव समुच्छ्वसितानि रोमाणि कूपकेषु - रोमरन्ध्रेषु यस्याः सा तथा । सुमिणुग्गहं करेइ' विशिष्टफललाभारोग्यराज्यादिकं विभावयति । 'अतुरियं' ति देहमनश्चापल्यरहितं यथा भवत्येवम् । 'असंभंताए' अनुत्सुकया 'रायहं ससरिसीए' राजहंसगतिसदृशयेत्यर्थः । 'आसत्या' आश्वस्ता गतिजनितश्रमाभावात् । 'वीसत्था' विश्वस्ता सङ्क्षोभाभावादनुत्सुका । 'सुहास गवरगया' सुखेन वा सुखं वा शुभं वा आसनवरं गता या सा तथा । करयलपरिग्गहियं शिरसि प्रदक्षिणावत्तै दशनखं 'अञ्जलि' मुकुलितकमलाकारं कृत्वा वदतीति । ' एवं खलु अहं देवाणुप्पिया' इत्यादि सुगमम् ॥ सूत्रम् ७– देवानांप्रियः सोऽपि मइपुव्वेणं अपणो साभाविएणं आभिनिबोधिकप्रभवेन 'बुद्धिविन्नाणेणं' बुद्धि:साम्प्रतदर्शिनी विज्ञानं - पूर्वापरार्थविभावकम् तेन मतिविशेषभूतोत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेनेति ।
6
""
' अत्थोग्गहणं ' फलनिश्चयम् ॥ सूत्रम् ८ --- ' ओराला णमित्यादि जाव सुकुमालपाणि ' अग्रे व्याख्यास्यते ॥ ""सूत्रम् ९ - विन्नयपरिणयमित्ते ' विज्ञ एव विज्ञकः स चासौ परिणतमात्रश्च कलादिष्विति गम्यते विज्ञकपरिणतमात्रः । 'जुब्बणकं' यौवनमनुप्राप्तः । 'रिउब्वेय'त्ति ऋग-यजुः सामावेदानां इतिहास:- पुराणं पञ्चमो येषां ते तथा तेषाम् । 'चतुण्हं वेयाणं 'ति विशेष्यपदम् । 'निघंटछद्वाणं' निर्घण्टः-नामकोशः । ' संगोवंगाणं' अङ्गानि - शिक्षादीनि षट्, उपाङ्गानि - तदुक्तार्थ प्रपञ्चनपराः प्रबन्धाः । 'सरहस्साणं'ति ऐदम्पर्वयुक्तानाम् । 'सारए' अध्यापनद्वारेण प्रवर्त्तकः, स्मारको वा, अन्येषां विस्मृतस्य सूत्रादेः स्मारणात् । 'वारए' वारकः, अशुद्धपाठनिषेधात् । 'धारए' क्वचित् पाठः, सूत्रधारकः, अधीतानामेषां धारणात्। 'पारए' पारगामी 'षडङ्गवि' दिति षडङ्गानि - शिक्षादीनि वक्ष्यमाणानि । 'साङ्गीपाङ्गानामिति यदुक्तं तद् वेदपरिकरज्ञापनार्थम्, अथवा 'षडङ्गवि' दित्यत्र तद्विचारकत्वं गृहीतम्, “विद विचारणे" इति वचनादिति न पुनरुकत्वमिति । 'सहितंत विसारए' कापिलीय शास्त्रपण्डितः । 'संखाणे 'त्ति गणितस्कन्धेषु सुपरिनिष्ठित इति योगः । षडङ्गवेदकत्वमेव व्यनक्ति - 'सिक्खाकप्पे' शिक्षा - अक्षरस्वरूपनिरूपकं शास्त्रम्, कल्पश्च - तथाविधसमाचारनिरूपकं शास्त्रमेव, ततः समाहारद्वन्द्वात् शिक्षा कल्पे | 'चागरणे' शब्दशास्त्रे | छंदे' पद्मलक्षणशास्त्रे । 'निरुक्ते' शब्दव्युत्पत्तिका रकेशास्त्रे, "निरुक्तं प्रदभञ्जनम्" ( अभि० २ - १६८) इति वचनात् । 'जोइसामयणे' ज्योतिःशास्त्रज्ञानम्, "अय पय" इत्यादि सर्वे गत्यर्था