________________
॥ अईम् ॥
आचार्य श्री पृथ्वीचन्द्रसूरिप्रणीतं,
कल्पसूत्रटिप्पनकम् ।
प्रणम्य वीरमाश्चर्यसेवर्षि विधिदर्शकम् । श्री पर्युषणाकल्पस्य, व्याख्या काचिद् विधीयते ॥ १ ॥ पवमानस्य सद्वृत्तेरस्य चोद्धृत्य चूर्णितः । किञ्चित् कस्मादपि स्थानात् परिज्ञानार्थमात्मनः ||२॥
1
सूत्रम् १ – 'ते णं काले णं' ति 'ते' इति प्राकृत शैलीवशात् तस्मिन् यस्मिन् भगवानत्रावतीर्ण इह भरते । कारो वाक्यालङ्कारार्थः सर्वत्र द्रष्टव्यः ।' काले' अधिकृतावसर्पिणीचतुर्थार के । 'ते णं' ति तस्मिन् यत्रासौ भगवान् देवानन्दाया ब्राह्मण्या दशमदेवलोकप्राणतपुष्पोत्तर विमानात् च्युतः ॥ सूत्रम् २ – मुनिसुव्रत नेमी हरिवंशसमुद्भवौ, शेषा एकविंशतिः काश्यपगोत्राः । 'अड्ढरत्तकाल - समयंसि'त्ति समयः समाचारोऽपि भवतीति कालो वर्णादिरपि स्यात् तव्यवच्छेदार्थ समयग्रहणम्, कालेन विशेषितः कालरूपः समयः, स चार्द्धरात्ररूपोऽपि भवति अतोऽर्द्धरात्रशब्देन विशेषितश्च, अर्धरात्ररूपः कालसमयोऽर्द्धरात्रकालसमयः । स च पूर्वरात्रकालोऽपि भवत्यत एवापररात्रे, तत्र स्वप्नस्य सद्यः फलत्वात् । हस्त उत्तरो यासां ताः, बहुवचनं बहुकल्याणकापेक्षम् | योगः - चन्द्रेण सह सम्बन्धः । आहारव्युकान्या भवव्युत्क्रान्त्या शरीरख्युत्क्रान्त्या परित्यागेनेति, एतानि देवभवसम्बन्धीनि परित्यजति । कुक्षौ गर्भत्वेनोत्पद्यमानः सन् 'व्युत्क्रामति' प्रविशतीत्यर्थः ॥ सूत्रम् ३ – 'चइस्सामि'त्ति यतस्तीर्थकरसुराः पर्यन्तसमये अधिकतरं कान्तिमन्तो भवन्ति विशिष्टतीर्थ करत्वलाभात्; शेषाणां तु षण्मासावशेषे काले कान्त्यादिहानिर्भवति,
“माल्यग्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससां चोपरागः । दैन्यं तन्द्रा कामरागाङ्गभङ्गो, दृष्टिभ्रान्तिर्वेपथुश्चारविश्व || १ ||" इति । 'चयमाणे न जाणई' त्ति एकसामयिकत्वात् च्यवनस्य, "एगसामइओ नत्थि उवओगो" त्ति, १ काचिद्विलिख्यते हं० जे० ॥