Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
233
न्तेवासिनो नित्यं, येभ्यः सूत्रमधीयते । उपाध्यायपदस्थेभ्यस्तेभ्यो मेऽस्तु नमो नमः ॥ ११० ॥ असहायसहायेभ्यः, साधुभ्योऽस्तु नमो नमः | चारित्रयानपात्रे ये, दधते कर्णधारताम् ।। १११ ॥ बाह्याभ्यन्तरमुपधिं, धर्मस्यानुपकारकम् । सावद्ययोगविरत-स्त्रिविधं व्युत्सृजाम्यहम् ॥ ११२ ॥ चतुःप्रकारमाहारं प्रत्याख्यामि समाधिना । चरमोच्छ्रासवेलायां, तनूमेतां त्यजामि च ॥ ११३ ॥
एवमाराधनां कृत्वा मुनिः शान्तनवस्तदा । स्वगुरून् क्षमयामास साधून साध्वीश्च तत्परः ॥ ११४ ॥ पाण्डवा निष्पतद्वाष्प- मुच्छ्रायविनयादथ । निपत्य पादयोर्भीष्मं, मुनिराजं व्यजिज्ञपन् ।। ११५ ।। तात ! त्वया वयं बाल-रसाला इव लालिताः । वृद्धिमेतावतीमन्य - दुर्लभामलभामहि ॥ ११६ ॥ कृत्वा द्रोणमविद्रोण- गरिमाणं गुरुं पुरा । कलाकलापमखिलं, त्वयैवाध्यापिता वयम् ॥ ११७ ॥ शश्वत्ते पुनरसाभिर्व्यलीकान्येव तेनिरे । अयं तु रणसंरम्भो, व्यलीकस्यापि चूलिका ॥ ११८ ॥ ततः किं बहुना १ तात !, सर्व नः क्षन्तुमर्हसि । गुरूणां नैव कोपाय, डिम्भानां दुर्नयोऽपि हि ॥ ११९ ॥ क्षमयित्वेति गाङ्गेयं, स्थितेष्वपरबन्धुषु । एको भूयोऽपि निर्व्याजं, व्याजहार धनंजयः ॥ १२० ॥ एते त्वदङ्गसंसक्ता, मन्नामाङ्काः पतत्रिणः । दुष्कर्मतर्जनीकल्पा- स्तात ! मां तर्जयन्त्यलम् ॥ १२१ ॥ समरं संस्मरनेवं, तात ! खिद्ये पदे पदे । संप्रत्येतां ततोऽवज्ञा - मविज्ञस्य क्षमस्व मे ॥ १२२ ॥ एवं विज्ञापितः सर्वैः पाण्डवैर्मुनिपुंगवः । प्रसादपि - शुनं तेषां पृष्ठेदात् करपल्लवम् ॥ १२३ ॥
Jain Education Intentional
१ अविनश्वरगौरवम् । २ अप्रियाणि । ३ प्रसादसूचकम् ।
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312