Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पाण्डवरित्रम् ॥ र्गः१७॥
दाहवृत्तान्तः।।
।२९६॥
276 ॥ २७२ ॥ अथावादीन्मुनिर्विष्णो!, पर्याप्तं तव सान्त्वनः। अधुनैव धाऽन्धेन, निदानं विदधे मया ॥ २७३ ॥ द्वारकाया यदूनां च, क्षयाय स्यामतो हरे!। सर्वस्य प्रलयो भावी, लोकस्यास्य युवां विना ॥ २७४ ॥ पुनः प्रसादनापास्य, साभिलाषं विलोक्य माम् । न्यषेधल्लागली विष्णो!, कृतमेतस्य सान्त्वनैः ।। २७५ ।। वक्राङ्कि-नासिका-हस्ताः, स्थूलोष्ठो- दर-नासिकाः । हीनाङ्गा विषमाङ्गाश्च, शान्ति यान्ति न जातुचित् ।। २७६ ॥
ततः प्रेङ्घन्मनःखेदे, मयि हर्म्यमुपेयुषि । द्वैपायननिदानार्थः, सर्वोऽपि पुरि पप्रथे ।। २७७ ।। स्वभावतो ममादेशा-दुपदेशादपि प्रभोः । बभूव धर्मकमैक-सज्जो द्वारवतीजनः ।। २७८ ।। तदा कृपालुः कालज्ञः, समेत्य भगवानपि । पितरौ स्वौ कुमारांश्च, प्रद्युम्नादीनदीक्षयत् ॥ २७९ ॥ रुक्मिणीप्रमुखाः स्वामी, मदीया महिपीरपि । प्रात्राजयदनेकं च, द्वारकालोकमाकुलम् ।। २८० ॥ वत्सरे द्वादशेऽवश्यं, भाविनं द्वारकाक्षयम् । पृष्टः पुनर्ममादिश्य, विजहे प्रभुरन्यतः ॥ २८१ ॥ शश्वच्चतुर्थ-षष्ठादि-तपोनिष्ठुकचेतसः। जनस्यैकादशाब्दानि, निर्विघ्नं व्यतिचक्रमुः ॥ २८२ ।। ततश्च द्वादशे वर्षे, व्यतीयुपि कियत्यपि । जितोऽस्मत्तपसा नष्टो, द्वैपायनमुनिर्भुवम् ।। २८३ ॥ एवं निश्चित्य पूर्लोकः, प्रमादं मदिरादिकम् । निस्तन्द्रः पुनरादद्रे, दुर्लङ्घया भवितव्यता ।। २८४ ।। (युग्मम् ) ____ अथोत्पाता महीकम्प-निर्घातो-ल्कादयोऽभवन् । ग्रहेभ्यो निर्ययौ धूमः, कृशानुश्च विवस्वतः ॥ २८५ ॥ ननृतुश्चित्ररूपाणि, जहसुः शालभञ्जिकाः । अकाले राहुणा ग्रासः, सूर्याचन्द्रमसोरभृत् ॥ २८६ ॥ अकल्याणफलाः खमा, जनैर्दशिरे
१ 'नाभिकाः' प्रत्यन्तर० । २ 'विषमाझाश्च' प्रतियः ।
॥२९६॥
in Education International
For Personal & Private Use Only
Thainelibrary.org

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312