________________
पाण्डवरित्रम् ॥ र्गः१७॥
दाहवृत्तान्तः।।
।२९६॥
276 ॥ २७२ ॥ अथावादीन्मुनिर्विष्णो!, पर्याप्तं तव सान्त्वनः। अधुनैव धाऽन्धेन, निदानं विदधे मया ॥ २७३ ॥ द्वारकाया यदूनां च, क्षयाय स्यामतो हरे!। सर्वस्य प्रलयो भावी, लोकस्यास्य युवां विना ॥ २७४ ॥ पुनः प्रसादनापास्य, साभिलाषं विलोक्य माम् । न्यषेधल्लागली विष्णो!, कृतमेतस्य सान्त्वनैः ।। २७५ ।। वक्राङ्कि-नासिका-हस्ताः, स्थूलोष्ठो- दर-नासिकाः । हीनाङ्गा विषमाङ्गाश्च, शान्ति यान्ति न जातुचित् ।। २७६ ॥
ततः प्रेङ्घन्मनःखेदे, मयि हर्म्यमुपेयुषि । द्वैपायननिदानार्थः, सर्वोऽपि पुरि पप्रथे ।। २७७ ।। स्वभावतो ममादेशा-दुपदेशादपि प्रभोः । बभूव धर्मकमैक-सज्जो द्वारवतीजनः ।। २७८ ।। तदा कृपालुः कालज्ञः, समेत्य भगवानपि । पितरौ स्वौ कुमारांश्च, प्रद्युम्नादीनदीक्षयत् ॥ २७९ ॥ रुक्मिणीप्रमुखाः स्वामी, मदीया महिपीरपि । प्रात्राजयदनेकं च, द्वारकालोकमाकुलम् ।। २८० ॥ वत्सरे द्वादशेऽवश्यं, भाविनं द्वारकाक्षयम् । पृष्टः पुनर्ममादिश्य, विजहे प्रभुरन्यतः ॥ २८१ ॥ शश्वच्चतुर्थ-षष्ठादि-तपोनिष्ठुकचेतसः। जनस्यैकादशाब्दानि, निर्विघ्नं व्यतिचक्रमुः ॥ २८२ ।। ततश्च द्वादशे वर्षे, व्यतीयुपि कियत्यपि । जितोऽस्मत्तपसा नष्टो, द्वैपायनमुनिर्भुवम् ।। २८३ ॥ एवं निश्चित्य पूर्लोकः, प्रमादं मदिरादिकम् । निस्तन्द्रः पुनरादद्रे, दुर्लङ्घया भवितव्यता ।। २८४ ।। (युग्मम् ) ____ अथोत्पाता महीकम्प-निर्घातो-ल्कादयोऽभवन् । ग्रहेभ्यो निर्ययौ धूमः, कृशानुश्च विवस्वतः ॥ २८५ ॥ ननृतुश्चित्ररूपाणि, जहसुः शालभञ्जिकाः । अकाले राहुणा ग्रासः, सूर्याचन्द्रमसोरभृत् ॥ २८६ ॥ अकल्याणफलाः खमा, जनैर्दशिरे
१ 'नाभिकाः' प्रत्यन्तर० । २ 'विषमाझाश्च' प्रतियः ।
॥२९६॥
in Education International
For Personal & Private Use Only
Thainelibrary.org