________________
277
निशि । अनेशन क्वापि रत्नानि, चक्रादीनि ममापि च ।। २८७ ।। ततः संवतको वातः प्रावर्तत समन्ततः । स निचिक्षेप पुर्यन्त - दूरादुन्मूल्य पादपान् ॥ २८८ ॥ अन्तद्वसप्ततिः षष्टि-र्बहिश्च कुलकोटयः । अपिण्ड्यन्त भयान्नष्टा, अप्युपानीय केनचित् ॥ २८९ ॥ मयि पश्यति रामे च वह्निमह्नाय कश्चन । दारुणो दारुपूर्णायां, द्वारकायामदीपयत् ।। २९० ॥ अहं शोकान्धकारेण, धूमस्तोमेन चाम्बरम् । युगपत् परितः प्राप्त - व्यासेन व्यानशेतमाम् || २९१ | अभ्रंलिहाभिलाभि-धूमोsr निरध्यत । मम शोकान्धकारस्तु, कामं वृद्धिमनीयत ।। २९२ ।। अथाहं वसुदेवं च, देवकीं चाथ रोहिणीम् । आरोप्य रथमाक्रष्टुं प्रवृत्तः सह शीरिणा ॥ २९३ ॥ नाचैर्न वृषभैः किंचिद्रथं क्रष्टुमशक्यत । आवां युगार्पितस्कन्धौ, ततोऽभूव धुरंधरौ ॥ २९४ ॥ अभ िद्रुतमक्षाभ्यां सद्योऽभाजि युगेन च । रथः कथंचिदावाभ्यां निन्ये तदपि गोपुरम् ॥ २९५ ॥ अथ क्षणाददीयेतां, कपाटौ तत्र केनचित् । रामेणाङ्घ्रिप्रहारेण, व्यघटयेतां च वेगतः ।। २९६ ॥ महीमनोरथः किंचि-दस्मत्कृष्टोऽपि नाचलत् । क्लीबः पित्रोरपि त्राणे, व्यपीदं पौरुषे ततः ।। २९७ ।। विषादिनं तदानीं मां, देवः कश्चिfrfa स्थितः । उच्चैरुवाच भोः कृष्ण ! कृतं तव परिश्रमैः ॥ २९८ ॥ यस्मादस्मि स एवाहं, द्वीपायनवरः सुरः । उत्पन्नोsaकुमारेषु, स्मृत्वा वैरं करोम्यदः ।। २९९ ।। किं त्वेकादश वर्षाणि, परमोत्कर्षचचना । जनानामप्रमादेन, नावकाशो ममाभवत् ॥ ३०० ॥ तदहो दहनेनैव, मन्निदानभ्रुवाऽमुना । असावानेष्यते मृत्युं मातापितृजनस्तव ।। ३०१ || यदभावि न तद्भावि, भात्रि चेन्न तदन्यथा । तद्गच्छत (तं) पुराऽऽख्यातं मा स्म विस्मरतं मम ॥ ३०२ ॥ इति श्रुत्वाऽपि तद्वाच- माकर्षन्तौ रथं पुनः । भृशमावामभापन्त, पितरः स्नेहकातराः ॥ ३०३ ॥ वत्सौ ! वात्सल्यमस्मासु स्वोचितं चक्रथर्यवाम् । अवश्यं
For Personal & Private Use Only
Jain Education International
www.jainvelibrary.org