________________
275
i॥ २५७ ॥ कृष्णमालोक्य चामुर्छ-मपृच्छं चाप्तचेतनः । कथमेतदभृद्धा! ते, तदा द्वैपायने वनने ।। २५८ ॥ l अचीकथत्ततः कृष्णः, प्रभुवाक्यादनन्तरम् । पौरैः समुज्झिते मद्ये, षण्मासाः प्रययुः सुखम् ।। २५९ ।। आयाते मासि
वैशाखे, कदम्बवनपालकः । सभायामायतिप्रेक्षी, मामुपेत्य व्यजिज्ञपत् ।। २६० ॥ तत्र त्यक्तं तदा देव !, दुमपुष्पाधिवासितम् । उपागतेन सुस्वादु, मद्यं तत्पीतपूर्विणा ॥ २६१ ।। केनापि सुहृदा साम्बः, प्राभृतीकृत्य पायितः । कुमारैः सह दुर्दान्त-धनुस्तद्वनमाययौ ।। २६२ ॥ (युग्मम् ) ते तत्रापानमावध्य, तां सुरां स्वैरमापपुः । क्षणेन क्षीवतां प्राप्य, विचेलुश्च यदृच्छया ॥ २६३ ॥ तत्रैकान्ते तपस्यन्त-मन्तकं पापकर्मणाम् । द्वैपायनपरिव्राजं, ते निध्याय दधुः क्रुधम् ॥ २६४ ।। हन्यतामधुनवायं, दुरात्मा मुनिपांसनः । व्यापादितः कथं नाम, दग्धुमीशिष्यते पुरीम् ? ।। २६५ ॥ इति साम्बगिरा लेष्टुचपेटा-यष्टि-मुष्टिभिः । हत्वा हत्वा मृतप्रायं, तं व्यधुर्भवदात्मजाः ॥ २६६ ॥ मृतोऽयमिति मूर्छालं, तं त्यक्त्वा गृहमाययुः। मुर्छाविरामे सामर्ष, तं च वीक्ष्याहमागमम् ॥ २६७ ॥
इत्याख्याय स्थिते तस्मि-बनर्थो मा स भूदितः । इत्यगच्छं सरामोऽहं, सान्त्वनाय मुनेर्वनम् ॥ २६८ ॥ कोपाटोपकडाराक्ष-मद्राक्षं तत्र तं मुनिम् । करौ च कुड्मलीकृत्य, सप्रश्रयमवादिषम् ॥ २६९ ॥ दुस्तपं ते तपः केदं ?, मुने ! कोपः क चेदृशः । कथमेकत्र संवास-स्तेजस्तिमिरयोरयम् ? ॥ २७० ॥ मुहुः सिक्तं शमाम्भोभिः, फलिष्यन्मुक्तिसंपदा । तपोबीजमखण्डं ते, क्रोधवाहिदहत्ययम् ॥ २७१ ।। अज्ञानैर्मद्यपानान्धै-डिंम्भरूपैर्महामुने! । अपराद्धमिदं यत्ते, तदद्य क्षन्तुमर्हसि __१ "कथमेतदभूद्याते, तदा द्वैपायनं वनम" प्रतिद्वय० । २ दृष्ट्वा ।
Main Education
For Personal & Private Use Only
www.jainelibrary.org