Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
315
तद्दर्शितपथो भैक्ष्यं, सार्थादिभ्योऽग्रहीत्तदा ॥ १८५ ।।
हाद्यर्हाणि साराणि, काष्ठान्याहर्तुमन्यदा । रथकारास्तदाऽभ्येयु- यांसः काननोदरम् ॥ १८६ ॥ भ्राम्यनेणः स तान् वीक्ष्य, मासक्षपणपारणम् । विधातुमनसे राम-मुनयेऽज्ञापयद् द्रुतम् ।। १८७ ॥ तेनाग्रगामिना सोऽपि, निराकासमना मुनिः । ईचतुरचक्षुस्ता-नुत्ससर्प वनच्छिदः ॥ १८८ ॥ छेदं छेदं तरून सारान् , तेऽपि मध्यंदिने तदा । नानारसवतीपाकाः, समगच्छन्त भुक्तये ॥ १८९ ॥ धर्म साक्षादिवायान्तं, दूरादालोक्य तं मुनिम् । सानन्दो रथकाराणा-मग्रणीरित्यचिन्तयत् ॥ १९० ॥ धवादिशाखिनामेव, स्थानेऽस्मिन् विपिने कथम् । कल्पद्रवोऽपि दृश्यन्ते ?, भाग्यं नस्तदहो महत् ॥ १९१ ॥ ऐहिकश्रीफलाः कामं, तेऽपि कल्पद्रवोऽथवा । एते तु मुनयः स्वर्गा-पवर्गकमलाफलाः ॥ १९२ ॥ तदद्य खलु धन्योऽस्मि, स्तुत्यमद्यैव जन्म मे । जातं सफलमद्यैव, वनागमनमप्यदः ।। १९३ ॥ इत्यादि चिन्तयन्नन्त-रुन्मीलत्पुलकाङ्करः । अभ्युत्थाय स भून्यस्त-मौलिस्तं मुनिमानमत् ॥ १९४ ॥ प्रासुकैरेषणीयैश्च, तैस्तैरानन्दितेन्द्रियैः। पीनप्रीतिः स पाना-रुपतस्थे बलं मुनिम् ॥ १९५ ॥ तन्मनोवृत्तिमालोक्य, श्रद्धातिशयवन्धुराम् । रोहिणेयमुनिश्चित्ते, चिन्तयामासिवानिति ॥ १९६ ॥ अहो ! महात्मनोऽमुष्य, भावः कोऽप्येष निस्तुषः । एवमानन्दवैक्लव्य-मिदानीं यद्दधात्यसौ ॥१९७।। तनोति कृतिनां भाग्य, भावस्तात्कालिकोऽपि यत् । मृलादुन्मूल्यते तेषां, तेनैव भवभूरुहः ॥ १९८ ॥ तन्महात्मायमारूढस्तस्मिन् भावेऽस्ति संप्रति । यस्मिन् करप्रचेयानि, मन्ये मुक्तिसुखान्यपि ॥ १९९ ॥ ततोऽङ्गाधारमात्राय, प्रान्ताहारेच्छुरप्यहम् । न भावस्खलनं किंचित् , करिष्येऽस्य विवेकिनः ॥ २००॥ ततो राममुनिर्भेक्ष्य-मादातुमुपचक्रमे । दातुं च रथक
RSS
Jain Education
For Personal & Private Use Onl
-ibrary.org

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312