Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 304
________________ ४२.२ पीपाण्डव । अथ प्रशस्तिः । प्रशस्तिः ॥ चरित्रम्॥ ॥३०९॥ श्रीकोटिकाख्यगणभूमिरुहस्य शाखा, या मध्यमेति विदिता विटपोपमोऽस्याः। श्रीप्रश्नवाहनकुले सुमनोऽभिरामः, ख्यातोऽस्ति गुच्छ इव हर्षपुरीयगच्छः तत्राजनि श्रुतसुधाम्बुधिरिन्दुरोचिः-स्पर्धिष्णुकीर्तिविभवोऽभयदेवसूरिः । शान्तात्मनोऽप्यहह ! निःस्पृहचेतसोऽपि, यस्य क्रियाऽखिलजगजयिनी बभूव ॥२॥ बद्धक्रीड इवावतीर्य परमज्योतिर्विवर्तः क्षितौ, तत्पट्टाम्बरचन्द्रमाः समजनि श्रीहेमसूरिः प्रभुः । चित्रं यद्वचनामृतानि नृपतिः श्रीसिद्धराजः पपौ, विश्वेषामपि लेभिरे तनुभृतामायूंषि वृद्धिं पुनः ॥३॥ तस्य पदे मदनादि-द्वेषिजयी विजयसिंहमूरिरभूत् । यद्वपुषि स्पर्धाऽभूत् , लावण्यामृत-शमामृतयोः ॥४॥ श्रीचन्द्रसूरिरभवत् , तदीयपदभूषणं गुणेकनिधिः । विद्यायाश्च मदस्य च, येन वितेने चिरवियोगः ॥५॥ धर्म-ज्ञान-विवेक-संयम-तपःसंकेतकेलीगृहं, स श्रीमान् मुनिचन्द्रसूरिरभवत् तत्पट्टभूषामणिः। मस्तत्करपुष्करस्य महिमां किं नाम यत्सौरभ-गण्यन्ते बत मादृशा अपि जनैः संख्यासु संख्यावताम् ॥६॥ श्रीदेवभद्रसूरि-भूव तच्चरणकमलरोलम्बः । येन कलैः कीर्तिरवै-रभितो मुखरीकृतं भुवनम् १ ‘पमेऽस्याः ' प्रत्यन्त० । २ 'पुषः' प्रत्य० । ॥३०९॥ Jain Education Intematonal For Personal & Private Use Only hinelibrary.org

Loading...

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312