Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
277
निशि । अनेशन क्वापि रत्नानि, चक्रादीनि ममापि च ।। २८७ ।। ततः संवतको वातः प्रावर्तत समन्ततः । स निचिक्षेप पुर्यन्त - दूरादुन्मूल्य पादपान् ॥ २८८ ॥ अन्तद्वसप्ततिः षष्टि-र्बहिश्च कुलकोटयः । अपिण्ड्यन्त भयान्नष्टा, अप्युपानीय केनचित् ॥ २८९ ॥ मयि पश्यति रामे च वह्निमह्नाय कश्चन । दारुणो दारुपूर्णायां, द्वारकायामदीपयत् ।। २९० ॥ अहं शोकान्धकारेण, धूमस्तोमेन चाम्बरम् । युगपत् परितः प्राप्त - व्यासेन व्यानशेतमाम् || २९१ | अभ्रंलिहाभिलाभि-धूमोsr निरध्यत । मम शोकान्धकारस्तु, कामं वृद्धिमनीयत ।। २९२ ।। अथाहं वसुदेवं च, देवकीं चाथ रोहिणीम् । आरोप्य रथमाक्रष्टुं प्रवृत्तः सह शीरिणा ॥ २९३ ॥ नाचैर्न वृषभैः किंचिद्रथं क्रष्टुमशक्यत । आवां युगार्पितस्कन्धौ, ततोऽभूव धुरंधरौ ॥ २९४ ॥ अभ िद्रुतमक्षाभ्यां सद्योऽभाजि युगेन च । रथः कथंचिदावाभ्यां निन्ये तदपि गोपुरम् ॥ २९५ ॥ अथ क्षणाददीयेतां, कपाटौ तत्र केनचित् । रामेणाङ्घ्रिप्रहारेण, व्यघटयेतां च वेगतः ।। २९६ ॥ महीमनोरथः किंचि-दस्मत्कृष्टोऽपि नाचलत् । क्लीबः पित्रोरपि त्राणे, व्यपीदं पौरुषे ततः ।। २९७ ।। विषादिनं तदानीं मां, देवः कश्चिfrfa स्थितः । उच्चैरुवाच भोः कृष्ण ! कृतं तव परिश्रमैः ॥ २९८ ॥ यस्मादस्मि स एवाहं, द्वीपायनवरः सुरः । उत्पन्नोsaकुमारेषु, स्मृत्वा वैरं करोम्यदः ।। २९९ ।। किं त्वेकादश वर्षाणि, परमोत्कर्षचचना । जनानामप्रमादेन, नावकाशो ममाभवत् ॥ ३०० ॥ तदहो दहनेनैव, मन्निदानभ्रुवाऽमुना । असावानेष्यते मृत्युं मातापितृजनस्तव ।। ३०१ || यदभावि न तद्भावि, भात्रि चेन्न तदन्यथा । तद्गच्छत (तं) पुराऽऽख्यातं मा स्म विस्मरतं मम ॥ ३०२ ॥ इति श्रुत्वाऽपि तद्वाच- माकर्षन्तौ रथं पुनः । भृशमावामभापन्त, पितरः स्नेहकातराः ॥ ३०३ ॥ वत्सौ ! वात्सल्यमस्मासु स्वोचितं चक्रथर्यवाम् । अवश्यं
For Personal & Private Use Only
Jain Education International
www.jainvelibrary.org

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312