Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 284
________________ पाण्डव रिम् ॥ र्गः १८ ॥ ॥२९९॥ 302 after । बन्धुप धारम्भ - मकार्य कारिता वयम् ।। ३६३ || अन्योऽप्येतस्य संतान-स्तानवाय सुखश्रियाम् । सर्वदाऽभवदस्माकं, कपायविषयादिकः || ३६४|| तस्मादेनं तिरस्कृत्य, कुर्मो नेतारमात्मनः । तं चारित्रक्षमाधीशं, साक्षीकृत्य जगत्प्रभुम् || ३६५ ॥ किं तु न ज्ञायते देशो, यं पुनीतेऽधुना प्रभुः । यद्वा जानन्मुमुक्षून्नः, स्वयं सोऽनुग्रहीष्यति ॥ ३६६ ॥ सांधीयोऽध्यवसाय संततिमयी मारूढवन्तो दृढं निश्रेणिं स्पृहणीयवोधपटिमस्पष्टी भवदृष्टयः । तैस्तैरुत्कलिकाशतैः कर्वचितं चेतो वहन्तस्तदा, पन्थानं किल पाण्डवा जिनपतेरालोकयांचक्रिरे || ३६७।। इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये द्रौपदीप्रत्याहरण-द्वारकादाहकृष्णावसानवर्णनो नाम सप्तदशः सर्गः ॥ १७ ॥ अथ अष्टादशः सर्गः । अथ नेमिजिनादेशा - देशनाक्षीरसागरः । धर्मघोषमुनिः पाण्डु-मधुरोद्यानमाययौ ॥१॥ समागमं मुनेस्तस्य, विदित्वोद्यानपालकात् । सहानुजैरजातारि - मुंदितो वन्दितुं ययौ ॥ २ ॥ अथाध्यासीन मुन्मील- दानन्दाश्रूद बिन्दुभिः । सुरा-सुरनराधीश - मण्डलैर्मण्डितं सदः ||३|| निविष्टममरैः सृष्टे, विकचे काञ्चनाम्बुजे । कर्तुं विश्वत्रयीं धर्म-मयीमन्यं प्रजापतिम् ||४|| १ लघुत्वाय । २ साधीयान् - अतिप्रशस्यः । ३ उत्कण्ठाशतैः । ४ कवलितं ( व्याप्तं ) प्रतिद्वय० । Jain Educational For Personal & Private Use Only कृष्णस्य मरणम् । पाण्डवानां वैराग्यम् ॥ ॥२९९ ॥ nelibrary.org

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312