________________
पाण्डव
रिम् ॥ र्गः १८ ॥
॥२९९॥
302
after । बन्धुप धारम्भ - मकार्य कारिता वयम् ।। ३६३ || अन्योऽप्येतस्य संतान-स्तानवाय सुखश्रियाम् । सर्वदाऽभवदस्माकं, कपायविषयादिकः || ३६४|| तस्मादेनं तिरस्कृत्य, कुर्मो नेतारमात्मनः । तं चारित्रक्षमाधीशं, साक्षीकृत्य जगत्प्रभुम् || ३६५ ॥ किं तु न ज्ञायते देशो, यं पुनीतेऽधुना प्रभुः । यद्वा जानन्मुमुक्षून्नः, स्वयं सोऽनुग्रहीष्यति ॥ ३६६ ॥ सांधीयोऽध्यवसाय संततिमयी मारूढवन्तो दृढं निश्रेणिं स्पृहणीयवोधपटिमस्पष्टी भवदृष्टयः । तैस्तैरुत्कलिकाशतैः कर्वचितं चेतो वहन्तस्तदा, पन्थानं किल पाण्डवा जिनपतेरालोकयांचक्रिरे || ३६७।। इति मलधारिश्रीदेवप्रभसूरिविरचिते पाण्डवचरिते महाकाव्ये द्रौपदीप्रत्याहरण-द्वारकादाहकृष्णावसानवर्णनो नाम सप्तदशः सर्गः ॥ १७ ॥
अथ अष्टादशः सर्गः ।
अथ नेमिजिनादेशा - देशनाक्षीरसागरः । धर्मघोषमुनिः पाण्डु-मधुरोद्यानमाययौ ॥१॥ समागमं मुनेस्तस्य, विदित्वोद्यानपालकात् । सहानुजैरजातारि - मुंदितो वन्दितुं ययौ ॥ २ ॥ अथाध्यासीन मुन्मील- दानन्दाश्रूद बिन्दुभिः । सुरा-सुरनराधीश - मण्डलैर्मण्डितं सदः ||३|| निविष्टममरैः सृष्टे, विकचे काञ्चनाम्बुजे । कर्तुं विश्वत्रयीं धर्म-मयीमन्यं प्रजापतिम् ||४|| १ लघुत्वाय । २ साधीयान् - अतिप्रशस्यः । ३ उत्कण्ठाशतैः । ४ कवलितं ( व्याप्तं ) प्रतिद्वय० ।
Jain Educational
For Personal & Private Use Only
कृष्णस्य
मरणम् । पाण्डवानां वैराग्यम् ॥
॥२९९ ॥
nelibrary.org