Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 269
________________ 267 AND केपि मूञ्छिताः । आलिलिङ्गस्तरून् केऽपि, जनाः केऽप्यप्सु चाविशन् ॥ १३९ ॥ क्षम्यतामिदमागो मे, देवि ! दौरात्म्यवेश्मनः । मूर्तकीनाशदेशीया-मां रक्षास्मादधोक्षजात् ॥१४०॥ इत्याधुदीरयन् दीन, भिया तरलतारकः । पद्मनाभोऽथ पाञ्चाली-पादपङ्केरुहेऽपतत् ॥ १४१ ॥ (युग्मम् ) साऽप्यूचे चेद्वधूवेष-माधायाग्रे विधाय माम् । शाङ्गिणं शरणं यासि, तदा जीवसि नान्यथा ॥ १४२ ॥ तयेत्युक्तस्तथा चक्रे, पद्मनाभो भयातुरः । प्राणत्राणाय जीवा हि, नास्ति तद्यन्न कुर्वते ।। १४३ ॥ नृसिंहवपुरुत्सृज्य, प्रसन्नस्तं जनार्दनः। मा भैषीरिति संभाष्य, पप्रच्छ प्राक्तनी कथाम् ॥ १४४॥ पद्मनाभोऽब्रवीदेव!, नारदो मुनिपुंगवः । महसैव कदाचिन्मा-मागादन्तःपुरस्थितम् ॥ १४५ ।। तदाऽभ्यर्च्य यथौचित्य-मप्रच्छि स मुनिर्मया । यदीदृश्यः क्वचिद्दष्टाः, स्त्रियो मत्प्रेयसीसमाः ? ॥ १४६ ॥ मामथोचे स किं कूप-मण्डूक इव भाषसे । पाश्चाल्याः पुरतो राजन् , कीदृश्यस्तव वल्लभाः ॥ १४७ ।। भूयोऽपि विस्मयस्मेर-मानसोऽहं तमभ्यधाम् । पाञ्चाली भगवन् ! केयं ?, यत्त्वयैवं प्रशस्यते ॥ १४८ ।। अथाह स मुनिर्जम्बू-द्वीपभारतभूषणम् । हस्तिनापुरमित्यस्ति, पुरं स्वर्गपुरोपमम् ॥ १४९ ॥ पाण्डवाश्चण्डदोर्दण्डा-स्तद्धिन्वन्ति यशोधनाः। आदिकन्दो सुकुन्दोऽभू-द्यत्साम्राज्यमहीरुहः ॥१५० ॥ गजा हिरण्यगर्भस्य, रूप-लावण्यसंपदाम् । पाञ्चाली नाम पश्चानां, तेषामेकैव वल्लभा ॥ १५१ ॥ व्याहत्येति क्षणादन्त-रिक्षमुत्पतिते मुनौ । पाञ्चालीगुणटंकार-रहमुजांगरस्मरः ॥ १५२ ॥ पूर्वसंगतिकं मित्रं, देवं भवनवासिनम् । संस्मृत्य प्रार्थयामास, कृष्णाऽऽहरणहेतवे ॥ १५३ ॥ (युग्मम् ) सोऽब्रवीदथ पाश्चाली, सतीसीमन्तमौक्तिकम् । १ खानिः । २ कामातुर इत्यर्थः । Jain Education a l For Personal & Private Use Only elibrary.org

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312