________________
267
AND
केपि मूञ्छिताः । आलिलिङ्गस्तरून् केऽपि, जनाः केऽप्यप्सु चाविशन् ॥ १३९ ॥ क्षम्यतामिदमागो मे, देवि ! दौरात्म्यवेश्मनः । मूर्तकीनाशदेशीया-मां रक्षास्मादधोक्षजात् ॥१४०॥ इत्याधुदीरयन् दीन, भिया तरलतारकः । पद्मनाभोऽथ पाञ्चाली-पादपङ्केरुहेऽपतत् ॥ १४१ ॥ (युग्मम् ) साऽप्यूचे चेद्वधूवेष-माधायाग्रे विधाय माम् । शाङ्गिणं शरणं यासि, तदा जीवसि नान्यथा ॥ १४२ ॥ तयेत्युक्तस्तथा चक्रे, पद्मनाभो भयातुरः । प्राणत्राणाय जीवा हि, नास्ति तद्यन्न कुर्वते ।। १४३ ॥ नृसिंहवपुरुत्सृज्य, प्रसन्नस्तं जनार्दनः। मा भैषीरिति संभाष्य, पप्रच्छ प्राक्तनी कथाम् ॥ १४४॥
पद्मनाभोऽब्रवीदेव!, नारदो मुनिपुंगवः । महसैव कदाचिन्मा-मागादन्तःपुरस्थितम् ॥ १४५ ।। तदाऽभ्यर्च्य यथौचित्य-मप्रच्छि स मुनिर्मया । यदीदृश्यः क्वचिद्दष्टाः, स्त्रियो मत्प्रेयसीसमाः ? ॥ १४६ ॥ मामथोचे स किं कूप-मण्डूक इव भाषसे । पाश्चाल्याः पुरतो राजन् , कीदृश्यस्तव वल्लभाः ॥ १४७ ।। भूयोऽपि विस्मयस्मेर-मानसोऽहं तमभ्यधाम् । पाञ्चाली भगवन् ! केयं ?, यत्त्वयैवं प्रशस्यते ॥ १४८ ।। अथाह स मुनिर्जम्बू-द्वीपभारतभूषणम् । हस्तिनापुरमित्यस्ति, पुरं स्वर्गपुरोपमम् ॥ १४९ ॥ पाण्डवाश्चण्डदोर्दण्डा-स्तद्धिन्वन्ति यशोधनाः। आदिकन्दो सुकुन्दोऽभू-द्यत्साम्राज्यमहीरुहः ॥१५० ॥ गजा हिरण्यगर्भस्य, रूप-लावण्यसंपदाम् । पाञ्चाली नाम पश्चानां, तेषामेकैव वल्लभा ॥ १५१ ॥ व्याहत्येति क्षणादन्त-रिक्षमुत्पतिते मुनौ । पाञ्चालीगुणटंकार-रहमुजांगरस्मरः ॥ १५२ ॥ पूर्वसंगतिकं मित्रं, देवं भवनवासिनम् । संस्मृत्य प्रार्थयामास, कृष्णाऽऽहरणहेतवे ॥ १५३ ॥ (युग्मम् ) सोऽब्रवीदथ पाश्चाली, सतीसीमन्तमौक्तिकम् ।
१ खानिः । २ कामातुर इत्यर्थः ।
Jain Education
a
l
For Personal & Private Use Only
elibrary.org