________________
पाण्डवरित्रम् ॥
र्गः १७ ||
||२९२ ॥
268
कथंचिदीहते नान्यं वचः कुर्वे तथापि ते ॥ १५४ ॥ इत्युक्त्वा मेऽनुरोधेन, मन्दिरोपरिशायिनीम् । दत्त्वाऽवस्वापिनीं विद्यां द्रौपदीं सोsहरत् सुरः || १५५ ।। तेनाऽऽनीयार्पिता मह्यं पाञ्चाली बुबुधे ततः । अपश्यन्ती निजं वेश्म, संभ्रमं चाभजत् परम् ॥ १५६ ॥ ततोऽहं तां तथाभूता-मभ्यधां मा स्म सुन्दरि ! किंचित् कामिनःक्षोभं, किंकरोऽस्मि पुरस्तव ॥ १५७ ॥ द्वीपेऽस्मिन् धातकीखण्डे, जम्बूद्वीपादहारयम् । नृपः पद्माभिधोऽहं त्वां तन्मां मन्यस्व वल्लभम् ।। १५८ ।। ततः किंचिद्विचिन्त्येय-मूचे मां चेन्न मामकः । कश्चिदेष्यति मासान्तः, करिष्ये ते वचस्तदा ।। १५९ ।। सागरान्तरिताअम्बू द्वीपतः क इष्यति १ । इत्यालोच्य मयाऽप्यस्या, वचस्तदुररीकृतम् ॥ १६० ।। भवन्तो भ( भुवनातीत - महिमै कास्पदं पुनः । व्यतीत्यार्णवमप्येनं पृष्ठतोऽस्याः समागमन् ।। १६१ ।। इत्याख्याय कथां कृष्ण-विसृष्टः सोऽविशत् पुरीम् । कृष्णोऽपि ववले कृष्णां कृत्वा कौन्तेयसात्ततः ।। १६२ ।।
तदा च तत्र चम्पाया - मारामे पूर्ण भद्रके । मुनिसुव्रततीर्थेशः समेत्य समवासरत् ।। १६३ ।। रणारम्भभवं कृष्णपाञ्चजन्यस्य निःस्वनम् । श्रुत्वाऽपृच्छत् सभासीन स्तं हरिः कपिलाभिधः ॥ १६४ ॥ भगवन् ! भुवनाभोग - भिदारम्भभयंकरः । मत्समानस्य कस्यैष, शङ्खनादो विजृम्भितः १ ।। १६५ ।। तीर्थकृत् कपिलेनेति, पृष्ठे विस्पष्टविस्मयम् । पद्मना महीपाल - कथां सर्वामचीकथत् ॥ १६६ ॥ अत्रायातस्य कृष्णस्य स्वागतं कर्तुमिच्छति । मनो मे कपिलेनेति, प्रोक्ते भूयो विभुर्जगौ ॥ १६७ ॥ कदापि न भवत्येतद्भविष्यति बभूव वा । संगच्छेते जिनौ चक्र-भृतौ शौरी च यन्मिथः ।। १६८ ।। वीक्षिष्यसे तथाप्यस्य, त्वं पताकां पताकिनः । इत्याकर्ण्य विभोर्वाचं, सोऽनुकृष्णमधावत ॥ १६९ ॥ आस
Jain Education International
For Personal & Private Use Only
द्रौपदीं
लात्वा
अमर
कंकाया
निवर्तनम् ॥
तत्पृष्ठे
कपिल
वासुदेवस्य
गमनम् ।।
| ॥ २९२॥
jainelibrary.org