________________
पाण्डव
रित्रम् ॥ र्गः १७ ॥
॥२९१॥
266
ॐ
अयं वा भवितेदानीं, वयं वा जयभाजनम् ॥ १२४ ॥ इत्युदीर्य सुताः पाण्डो - रम्यमित्रीणतां दधुः । तथैवास्यान्मुरारिस्तु, संगरालोककौतुकी ॥ १२५ ।। पद्मनाभपताकिन्या, साकं कुन्तीतनूरुहाम् । अथाभृद्भुवनाभोग - डामरः समरश्चिरम् ॥ १२६ ॥ ततः पराञ्चिते किंचि-दनीके पाण्डुजन्मभिः । भूपतिः स्वयमुत्तस्थे, भूरिस्थामा महाभटैः ॥ १२७ ॥ पाण्डवेयास्ततस्तेन, तथा बाणैर्बभञ्जिरे । यथा समरमुत्सृज्य, मुरारिं शरणं ययुः ॥ १२८ ॥ व्याहरेश्व हरे ! नैनं, विजेतुं वयमीश्महे । त्वमेव नूनमेतस्मै, स्थास्यसे समराङ्गणे ।। १२९ ।। ऊचेऽथ सस्मितः शौरि - द्विपा यूयं जितास्तदा । यदाऽयं वा वयं वाऽथ, जेतारोऽद्येत्यवोचत ।। १३० ॥ इदानीं तु विलोकध्वं मदीयं रणकौतुकम् | जेष्याम्येनं रणे जेष्ये, नानेन कथमप्यहम् ॥ १३१ ॥
इत्युदित्वा मुराराति-रुच्चण्डैर्ध्वनिडम्बरैः । क्षोभितानेकराजन्यं, पाञ्चजन्यमपूरयत् ।। १३२ ।। बलत्रिभागः पद्मस्य, तदीयध्वनिनाऽनशत् । पञ्चाहेनासितेनेन्दो - बिम्बाभोगात्रिभागवत् ।। १३३ ।। शार्ङ्गं शाङ्गमथारोप्य, कोपादास्फालयदृढम् । तन्नादेनापि तत्सैन्य- त्रिभागस्तद्वदनुत् || १३४|| प्रणश्याथ पुरीं पद्मः, शेपसैन्यावृतोऽविशत् । दृढलोहार्गलाः सर्वाः, प्रतोलीश्चाप्यधापयत् ।। ।। १३५ || उत्तीर्याथ रथाद्विष्णु-व्यमान्तर्व्यापि भैरवम् । व्यात्ताननं हसदंष्ट्रं, नारसिंहं वपुधात् ।। १३६ ।। अथोन्मर्यादयन्नब्धीन्, कम्पयन् काश्यपीमपि । चालयनचलान् विष्णु-वितेने पादददरौन् ॥ १३७ ॥ प्राकाराप्राणि तैः पेतु-दुद्रुवुर्गापुराणि च । ध्वंसन्ते स्म च वेश्मानि सस्रंसे चाट्टमण्डली || १३८ || निम्नेषु केऽप्यलीयन्त, निपेतुः १ डामरः - आश्चर्यकृत् । २ पराजिते । ३ पञ्चदिनेन कृष्णपक्षेण । ४ दर्दर:- पर्वतविशेष आघातो वा ।
Jain Educational
For Personal & Private Use Only
अमरकंकाय
कृष्णपा
ण्डवानां
गमनम् ॥ पद्मनामेन
सह
युद्धम् ॥
॥२९१॥
jainelibrary.org