SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 265 तत्र कोपभरातत्त-दनुशिष्य मुरारिणा । दारुकः प्रेषयांचक्रे, पद्मनाभनृपान्तिकम् ॥ ११० ॥ तस्यास्थानस्थितस्यैत्य, दारुको दारुणाकृतिः। पादपीठं पदाऽऽक्रम्य, ददौ कुन्तेन पत्रकम् ॥१११॥ अवादीच मदाचान्त-स्वान्त ! भूपालपांसन ! । ब्रूते त्वां मुरजिज्जम्बू-द्वीपस्य भरतार्धभुक ॥ ११२ ॥ रे! त्वया पाण्डवेयानां, मद्वन्धूनां प्रियां पुरा । द्रौपदी हरता किं न, चिन्तितं मे भुजोर्जितम् ? ॥११३॥ तत्तवाद्य ध्रुवं दैव-मभवत् प्रातिलोमिकम् । दोर्मदस्तव यद्यस्ति, कोऽपि तत् संमुखीभव ॥ ११४ ॥ अहं तु त्वत्पुरीबाह्य-कानने सह पाण्डवैः । पडिरेव रथैरेत्य, स्थितोऽस्मि रणकेलये ॥ ११५ ॥ दारुकस्येति गां श्रुत्वा, पाटयित्वा जवेन तत् । पद्मः सम प्रकोपस्य, दूरं चिक्षेप पत्रकम् ।। ११६ ॥ ऊचे च रे मुकुन्दोऽसौ, जम्बूद्वीपे भयंकरः । इह तूर्जस्विनः कीदृक, सानीकोऽपि पुरो मम ? ॥११७॥ तद्वजाऽऽयात एवाह-मेषोऽनुपदमेव ते । सजीकुरु समीकाय, तं जवात सह पाण्डवैः ॥ ११८ ॥ परं यदि रणे नैतान् , सर्वानप्येकहेलया । ग्रासीकुर्वे । तदा दूत !, पद्मनाभोऽस्मि न ध्रुवम् ।। ११९ ॥ इत्यस्य गिरमागत्य, दारुको मुरविद्विषः । आख्याति स्म ततः सोऽपि, सपार्थः समवर्मयत् ॥१२०॥ पद्मनाभो. ऽथ ककुभः, पूरयन् पृतनोर्मिभिः । नगर्या निरगायोद्ध-कामः केशव-पाण्डवैः ।। १२१ ॥ पाण्डवान् पुण्डरीकाक्षस्तस्मिन्नभ्यागतेऽभ्यधात् । योत्स्यध्वे यूयमेतेन, युध्येऽहं वा विरोधिना ? ॥ १२२ ॥ अथोचुः पाण्डवाः कोऽय-मस्मिअपि तवोद्यमः । वडवाहव्यवाहस्य, कः संरम्भो हि पल्वले १ ॥ १२३ ॥ तद् विष्णो वयमेवैनं, योधयिष्यामहे बलात् । १ युद्धाय । वडवानलस्य । Jain Educat internal For Personal & Private Use Only www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy