SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ पाण्डवरित्रम् ॥ र्गः १७ ॥ ॥२९०॥ 264 शाकृतिम् । मृगाक्षीं कांचिद्राक्ष - मित्याख्यायोत्पपात मः ।। ९५ ।। नूनं कर्मेदमस्यैव, साऽपि द्रुपदभूर्भुवम् । इति निश्चित्य कंसारिः, पितृष्वस्त्रे न्यवेदयत् ।। ९६ || संदिदेश तथा पाण्डु-मूनुभ्यश्च यथा जत्रात् । युष्माभिरभ्युपेतव्यं, तीरे प्राग्ल. वणोदधेः ।। ९७ ।। इत्युदीर्य विसृष्टेयं, विष्णुना हास्तिनं ययौ । समस्तं पाण्डवेभ्यश्च तं वृत्तान्तमचीकथत् ।। ९८ ।। dse प्रियावियोगार्ताः, पौरस्त्योदधिरोधसि । प्रागुगृहीतनिवासेन संगच्छन्ते स्म शौरिणा ।। ९९ ।। अथ सुस्थितमाराद्धु-मधीशं लवणोदधेः । प्रयतात्मा तपोऽकार्षी-दरिष्टारातिरष्टमम् ॥ १०० ॥ ततोऽभ्येत्याभ्यधाद्विष्णुं, सुस्थितो रचिताञ्जलिः । कर्तव्याय मुरारे ! मां, किंकुर्वाणमिवादिश ।। १०१ ।। व्याजहार हरिभद्र !, केनचिद्रौपदी हृता । तदीया धातकीखण्डे, किंवदन्ती च विद्यते ॥ १०२ ॥ तत्तथा किंचिदाधेहि, सा प्रत्याहियते यथा । इत्याकर्ण्य हरेर्वाच मुत्राच लवणाधिपः ।। १०३ || मानीकमहितं हत्वा क्षित्वा च मकराकरे । तां देव ! धातकीखण्डा-दुपानीय तवार्षये ॥ १०४ ॥ मम स्वप्रेष्यदेश्यस्य, यद्यादेशं प्रयच्छसि । स्वयं तु कोऽयमारम्भः कार्येऽमुष्मिन् लघीयसि ? ।। १०५ ॥ ( युग्मम् ) ततोऽब्रवीन्मुरारातिः, सर्व त्वय्युपपद्यते । किं त्वेवं विहितं कार्य- मस्माकमयशस्करम् ।। १०६ ।। ततो नः सरितां नाथ-मतिक्रम्य यथा रथाः । यांन्ति षड् धातकीखण्डे, तथा त्वं कर्तुमर्हसि ।। १०७ ॥ तथैवेति कृते तेन पञ्च पाण्डुतनूरुहाम् । षष्ठश्च स्यन्दनः सौरे-रुत्तेरुलवणार्णवम् ॥ १०८ ॥ ततस्ते धातकीखण्डे - ऽमरकङ्कापुरीं ययुः । बाह्योद्याने च सर्वर्तु - केलिवेश्मन्यवातरन् ॥ १०९ ॥ Jain Education International " १ ' प्रयान्ति धातकी ० प्रत्यन्तरः । For Personal & Private Use Only द्रौपद्या हरणम् अमरकं कायाम् ॥ ॥२९०॥ www.jainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy