Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 274
________________ पाण्डव :१७॥ द्वारकाक्षयादिवृत्तान्तः प्रभुकथितः॥ ।२९४॥ २१२ निदानमथ केशवः। नवीनं सीधुसंधानं, प्रत्यषेधजनप्रियः ।। २१४ ॥ प्राक्तनं तु कदम्बाद्रेः, कदम्बाहे वने हरिः। | कादम्बरीगुहाभ्यणे, मद्यमत्याजयजनैः ॥ २१५॥ भूरिभृमीरुहाकीर्णे, तत्र तैस्त्यक्तया तया । आकर्णान्तमपूर्यन्त, शिलाकुण्डानि शुण्डया ॥ २१६ ॥ तदानीं चाभ्यधाद्वन्धुः, सिद्धार्थः सारथिर्बलम् । अनुज्ञातस्त्वया दीक्षां, जिघृक्षामि जिनान्तिके ॥ २१७ ॥ बलो. ऽप्यूचे सहायं त्वां, विस्रष्टुं नाहमुत्सहे । एतेन पणबन्धेन, विदधे तु तवेप्सितम् ॥ २१८ ॥ यदि देवप्रदत्ताप-प्रौढिव्यामूढमानसम् । दिवं यातः कदाऽप्येत्य, स्नेहान्मां बोधयिष्यसि ॥ २१९ ॥ तथेत्युक्त्वा व्यधात् स्वार्थ, सिद्धार्थस्तदनुज्ञया । चरंश्चारित्रमन्यत्र, ययौ च स्वामिना समम् ।। २२० ॥ चिरादवसरं प्राप्य, कुन्ती कृष्णमथावदत् । पाण्डवाः काऽऽसतां वत्स !, त्वया निर्विषयीकृताः ? ॥ २२१ ॥ तवैवेयमशेषाऽपि, भरतार्धवसुंधरा । तत् प्रसीद खबन्धूनां, किमपि स्थानमादिश ।। २२२॥ केशवोऽप्यनवीन्नव्या, दक्षिणा म्भोधिरोधसि । निर्माय पाण्डुमथुरां, तत्र तिष्ठन्तु पाण्डवाः ॥ २२३ ।। अथैत्य हास्तिनं कुन्ती, सुतानां तदचीकथत् । आगत्य पाण्डुविषये, तत्तथा तेऽपि चक्रिरे ।। २२४ ॥ अभिमन्यूत्तरापुत्रं, सुभद्रापौत्रमच्युतः। हस्तिनापुरभूपालं, परीक्षितमतिष्ठिपत् ॥ २२५ ॥ अथ तां द्वारकावार्ता, परावर्तयंतां हृदि । पार्थानां पाण्डुमथुरा-राज्येष्वासीन्न निर्वृतिः ॥ २२६ ।। ध्यायन्तः १ मदिरया । २ स्मरताम् । ॥२९४|| Jan Educ a tional For Personal Private Use Only elibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312