________________
पाण्डव
:१७॥
द्वारकाक्षयादिवृत्तान्तः
प्रभुकथितः॥
।२९४॥
२१२ निदानमथ केशवः। नवीनं सीधुसंधानं, प्रत्यषेधजनप्रियः ।। २१४ ॥ प्राक्तनं तु कदम्बाद्रेः, कदम्बाहे वने हरिः। | कादम्बरीगुहाभ्यणे, मद्यमत्याजयजनैः ॥ २१५॥ भूरिभृमीरुहाकीर्णे, तत्र तैस्त्यक्तया तया । आकर्णान्तमपूर्यन्त, शिलाकुण्डानि शुण्डया ॥ २१६ ॥
तदानीं चाभ्यधाद्वन्धुः, सिद्धार्थः सारथिर्बलम् । अनुज्ञातस्त्वया दीक्षां, जिघृक्षामि जिनान्तिके ॥ २१७ ॥ बलो. ऽप्यूचे सहायं त्वां, विस्रष्टुं नाहमुत्सहे । एतेन पणबन्धेन, विदधे तु तवेप्सितम् ॥ २१८ ॥ यदि देवप्रदत्ताप-प्रौढिव्यामूढमानसम् । दिवं यातः कदाऽप्येत्य, स्नेहान्मां बोधयिष्यसि ॥ २१९ ॥ तथेत्युक्त्वा व्यधात् स्वार्थ, सिद्धार्थस्तदनुज्ञया । चरंश्चारित्रमन्यत्र, ययौ च स्वामिना समम् ।। २२० ॥
चिरादवसरं प्राप्य, कुन्ती कृष्णमथावदत् । पाण्डवाः काऽऽसतां वत्स !, त्वया निर्विषयीकृताः ? ॥ २२१ ॥ तवैवेयमशेषाऽपि, भरतार्धवसुंधरा । तत् प्रसीद खबन्धूनां, किमपि स्थानमादिश ।। २२२॥ केशवोऽप्यनवीन्नव्या, दक्षिणा म्भोधिरोधसि । निर्माय पाण्डुमथुरां, तत्र तिष्ठन्तु पाण्डवाः ॥ २२३ ।। अथैत्य हास्तिनं कुन्ती, सुतानां तदचीकथत् । आगत्य पाण्डुविषये, तत्तथा तेऽपि चक्रिरे ।। २२४ ॥ अभिमन्यूत्तरापुत्रं, सुभद्रापौत्रमच्युतः। हस्तिनापुरभूपालं, परीक्षितमतिष्ठिपत् ॥ २२५ ॥
अथ तां द्वारकावार्ता, परावर्तयंतां हृदि । पार्थानां पाण्डुमथुरा-राज्येष्वासीन्न निर्वृतिः ॥ २२६ ।। ध्यायन्तः १ मदिरया । २ स्मरताम् ।
॥२९४||
Jan Educ
a
tional
For Personal Private Use Only
elibrary.org