________________
273
सर्ववस्तूनां, ते केवलमनित्यताम् । दीनोद्धारदयादीनि, धर्मकर्माणि चक्रिरे ।। २२७ ॥ पाण्डः कुन्ती च संसार-मसारं दधतौ हृदि । तदा सस्मरतुः कामं, भगवन्तं व्रतार्थिनौ ॥ २२८ ।। नाथोऽपि समवासार्षी-त्तत्रैत्य ज्ञाततन्मनाः। भगवांश्च विवस्वांश्च, परोपकृतिकर्मठौ ॥ २२९ ॥ धर्मजन्माऽथ सोत्कण्ठं, मातापितपुरःसरः । गत्वाऽनमजगन्नाथ-माहितोन्माथमापदाम् ।।२३०॥ प्रभोः सुधामुचं श्रुत्वा, वाचं संविग्नमानसौ । प्रणम्य पाण्डः कुन्ती च, परिव्रज्यामयाचताम् ।।२३१।। स(त)दैव समयज्ञाना-मात्मजानामनुज्ञया। तयोरिष्टमपूरिष्ट, समीपेऽरिष्टनेमिनः ॥२३२।। तावथासादितस्वामि-प्रसादमुदिताशयौ । व्रताचारमधीयानौ, समं तेन विजहतुः ।। २३३ ॥ प्रभोः पित्रोच विरहे, पाण्डवैरुन्मनायितम् । नक्तंदिवं तदादिष्टे, धर्मे तु सुमनायितम् ॥ २३४ ॥ निर्माप्य तत्र तैश्चैत्यं, स्वाम्युत्कण्ठा व्यनोद्यत । मातापित्रोवियोगस्तु, क्लमयामास तन्मनः ।। २३५ ॥ कृष्णा विज्ञा विशेषेण, शुश्रूषामास तांस्तदा । "प्रीतिपात्रं कलत्रं हि, सर्वक्लेशापहं नृणाम् " ॥२३६।। ते पञ्चपुजिगीषायां, विस्फुरत्पौरुषा अपि ! ततस्तदेकविषयान् , विषयाननुमेनिरे ॥ २३७॥
पर्यायेणाथ भुञ्जाना, सह तैर्दयितैः सुखम् । गर्भ बभार पाञ्चाली, निधानमिव मेदिनी ॥ २३८ ॥ अन्यतेजस्विमाहात्म्य-ग्रासोजागरतेजसम् । प्रातः प्राचीव मार्तण्डं, सा क्रमात् सुषुवे सुतम् ॥ २३९ ॥ जगदानन्दने तस्मि-चन्दने धमेनन्दनः । जाते दानं ददौ किंच, शोधयामास चारकान् ।। २४० ॥ नामास्य पाण्डवैः पाण्डु-सेन इत्युज्वलौजसः । दीनानाथजनोद्धार-पुरःसरमसूत्र्यत ॥ २४१ ॥ पाण्डुसेनोऽथ सेनानी-रिव बाल्येऽपि विक्रमी । विज्ञः प्रज्ञावतामय्यो, जग्राह
१ कार्तिकस्वामी ।
कावषयान् , विषयाननहि , सर्वक्लेशापहं नृणाम
पुञ्जाना, सह
तै
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org