SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ भद्रेऽस्ति भद्रिले । सुलसाऽनलसा धर्म, नागस्य श्रेष्ठिनः प्रिया ॥ १९९ ॥ तस्यै प्रददिरे भक्ति-तोषिणा नैगमेषिणा।। कृष्णाग्रजाः षडप्येते, पुत्रास्त्वत्कुक्षिकौस्तुभाः॥ २०॥ तस्या मृतान्यपत्यानि, तेनार्यन्त पुनस्तव । गत्वा तत्र मयाऽप्येते, दीक्षिता मोक्षगामिनः ॥ २०१॥ अतोऽमी सदृशा विष्णो-स्त्वदृशोरमृताञ्जनम् । “आनन्दकन्दलीहेतु-रीदृशं ह्यौरसं महः " ॥२०२ ॥ श्रुत्वेति देवकी स्नेह-लहरीप्रसुतस्तनी । ववन्दे सह कृष्णाद्यै-स्तान् प्रीतिपुलकाङ्कितैः ॥२०३।। स्वामिनाऽथ विसृष्टायां, देशनायां जनार्दनः । कुन्ती पितृष्वसारं स्वां, मुदितः स्वगृहेऽनयत् ॥ २०४॥ परेद्यपि समं कुन्त्या , पुनरासेदिवान् सदः । स्वां लक्ष्मी वीक्ष्य तादृक्षा-मन्वयुत प्रभुं हरिः ।। २०५ ।। अस्याः स्फीतश्रियः पुर्याः, क्षयो भावी किमन्यतः? । ममापि मृत्युरन्यस्मात् , किं स्वामिन्निति कथ्यताम् ।। २०६ ॥ आमेति प्रभुणा प्रोक्ते, कमादिति जगौ हरिः । अथाचख्यौ जिनः पुर्या, मुनींपायनात् क्षयः ॥२०७॥ अस्माजराकुमाराच, स्निग्धाद्वन्धोर्वधस्तव । यदुवंशक्षये विद्धि, मद्यमाद्यं च कारणम् ॥ २०८ ॥ इत्याकर्ण्य विभोर्वाच-माचान्तहृदयो भिया । सर्वपर्षजनो जज्ञे, वैमनस्यमलीमसः ॥ २०९ ॥ धिगेनं यदसौ पात्रं, भावी बन्धुवधैनसाम् । इत्येककालमालोकि, तदा लोकैजरात्मजः ॥ २१० ॥ भ्रातुर्धाताय मा भूव-मित्यसौ धन्व सेषुधि । विभ्रद्ययावरण्यानी, द्वारकां च हरिः पुनः ।। २११ ॥ तत्रैव यादवस्नेहात्, पारिव्राज्यव्रती वसन् । द्वीपायनोऽपि शुश्राव, जनेभ्यस्तद्वचः प्रभोः ।। २१२ ॥ ततः षष्ठतपः कुर्वन् , ब्रह्मचारी शुचिः शमी । पूर्दाहपातकाशीतः, कान्तारं सोऽप्यशिश्रियत् ॥२१३॥ पुरीदाह-कुलोच्छेद-| १ 'भहिले' प्रत्यन्तर० । २ व्याप्तचित्तः । For Personal & Private Use Only www.ainelibrary.org
SR No.600184
Book TitlePandav Charitra Mahakavyam Part 02
Original Sutra AuthorDevprabhsuri
Author
PublisherJinshasan Aradhana Trust
Publication Year1990
Total Pages312
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy