________________
रित्रम् ॥
कृष्णपाण्डवानां स्वस्वनगरे गमनम् ।।
पाण्डव- हरिगङ्गा, तरीतुमुपचक्रमे ॥ १८४ ॥ कृच्छ्राद्गच्छन् प्रवाहान्तः, श्रान्तः शौरिरचिन्तयत् । श्लाघ्यास्ते खलु कौन्तेया-स्ती
Nणेयं यः सुरापगा ॥ १८५ ॥ अथास्मिन्नतिखिन्नेऽन्त-विचक्रे देवता स्थलम् । मुहूर्त तत्र विश्रम्य, पारेगङ्गं ययौ हरिः :१७॥ ॥ १८६ ॥ तत्रापृच्छत् सुतान् पाण्डोः , केशवो ननु जाह्नवीम् । भवन्तः कथमुत्तीर्णा-स्तेऽपि नावेत्यचीकथन् ॥ १८७॥
किं नौर्न प्रेषिता मह्य-मित्युक्तेऽथ मुरारिणा । वीक्षितुं तव दोःसार-मित्याख्यान्ति स्म पाण्डवाः ॥ १८८ ॥ ततः २९३॥
कोपारुणीभृत-चक्षुर्दामोदरोऽभ्यधात् । कंस-केशि-जरासन्ध-चाणूरादिवधे पुरा ॥१८९॥ संप्रत्येव जये पद्म-नाभस्य च महीभुजः । नेक्षितं मम दोसारं ?, दिदृक्षध्वेऽधुनैव यत् ? ॥१९०।। इत्युदीर्य मुराराति-लोहदण्डेन कोपतः। स्यन्दनान् पाण्डवेयानां, लोष्टचूरमचूरयत् ॥ १९१ ।। (त्रिभिर्विशेषकम् ) जगाद च यदि क्षोणी, मदीयामधिवत्स्यथ । सपुत्रबान्धवा-नीका-स्तदानीं न भविष्यथ ॥ १९२ ॥ सक्रोधमभिधायेति, कंसारिरिकां ययौ । श्यामीभृतमुखाम्भोजाः, पाण्डवा अपि हास्तिनम् ॥ १९३ ॥ ते तत्राभ्येत्य तां वार्ता, माता-पित्रोद्यवेदयन् । " मुखदुःखैकविश्रामः, पितरौ हि तनूरुहाम्" ।। १९४ ॥
अथ पाण्डुर्विमृश्यान्त-रनुरोधविधित्सया । द्वारकायां पुरि प्रैपीत् , कुन्ती कंसान्तकान्तिकम् ॥ १९५ ॥ ततः कुन्ती गजारूढा, द्वारकोद्यानमीयुषी । प्रभोः समवसरणं, वीक्ष्य पछ्यां तदाविशत् ॥ १९६॥ नत्वा नाथं निपेश्यामेतस्यां देवकी तदा । अप्राक्षीदाययुर्ये ह्यः, प्रभो! मद्धाम्नि साधवः ॥ १९७ ॥ अन्योऽन्यमतिसारूप्या-दभेदभ्रमकारिणः । मम प्रीतिकराः के ते?, कथं च सदृशा हरेः ? ॥ १९८ ॥ (युग्मम् ) आख्याति स्म ततः स्वामी, पुरे
|॥२९॥
Jan Edulli
n atang
For Personal & Private Use Only
*
ainelibrary.org