Book Title: Pandav Charitra Mahakavyam Part 02
Author(s): Devprabhsuri, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 247
________________ 245 किं नाम, जगत्यौपम्यमश्चति ? । मुष्टिरप्यस्य मध्यस्य, माने मन्येऽतिभूयसी ॥ १८७ ।। दत्ता तद्भङ्गमीत्येव, रोमाली लोहपट्टिका । कीर्तिस्तम्भोपमावूरू, मद्वधूरत्नशिल्पिनः ॥१८८।। जङ्घ लङ्घयतः सर्व-मुपमागोचरीकृतम् । पादौ च हसतः पद्म| वासां लक्ष्मी नखांशुभिः ॥ १८९ ।। न विश्वसिमि भाग्याना-मियत्यपि गते परम् । वधरेतादृशी गेहं, यन्ममालंकरिष्यति ॥ १९० ॥ साऽथ स्त्रीभिः शिवादेशा-दलं कर्तुं विभूषणैः । समारभ्यत वर्षाभिः, कुसुमैरिव मालती ॥ १९१ ॥ सर्वाङ्गालंकृता काम, रेजे राजीमती तदा । सरसीव नवोत्फुल्ल-कैरवाराममण्डिता ॥ १९२ ॥ आकल्पैः पीवरश्रीकं, सा मुहुर्वीक्ष्य दर्पणे । रोचिष्यमाणमात्मानं, नेमये समभावयत् ॥ १९३ ॥ ततोऽन्तर्मातृकागार-मवस्थाप्य वधूं मुदा । शिवादयः प्रमोदेन, वरान्तिकमुपाययुः ॥ १९४ ॥ ततश्चन्दनलिप्साङ्गो, मुक्ताभरणभूषितः । वरः प्रीणितनेत्राणि, पारिणेत्राणि पर्यधात् ॥ १९५ ॥ मौलौ धृतसितच्छत्रो, वारलीधूतचामरः । परिणेतुं प्रतस्थेऽथ, स्थितो रथवरे वरः॥ १९६ ॥ केपि स्तम्बेरमान केऽपि, रथान् केऽपि तुरङ्गमान् । आरूढाः प्रौढलक्ष्मीकाः, कुमाराः पुरतोऽचलन् ॥ १९७ ॥ अन्ये प्रचेलुराकल्प-पराजितबिडौजसः । आरुबैरावणनिभानिभानुभयतो नृपाः ॥ १९८ ॥ राम-कृष्णौ दशाहश्चि, वर्षीयांसस्तथाऽपरे । आरुह्य कुञ्जरप्रष्ठान , पृष्ठतस्तु प्रतस्थिरे ॥ १९९ ॥ प्रास्थायि स्वैरमास्थाय, शिबिकाः स्यूतमौक्तिकाः । कुन्ती शिवादिभिस्तेषां, पश्चाद्वैवाहिनीजनैः ॥ २० ॥ इभवृंहितमश्वीय-हेषा तूर्यरवा अपि । समन्ततोऽप्यधीयन्त, तासां मङ्गलगीतिभिः ॥ २०१॥ तानि तान्यवदानानि, १ परिणेतृसंबन्धीनि अलंकारादीनि । २ पराक्रमान् । Jain Educat onal For Personal & Private Use Only

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312