________________
245
किं नाम, जगत्यौपम्यमश्चति ? । मुष्टिरप्यस्य मध्यस्य, माने मन्येऽतिभूयसी ॥ १८७ ।। दत्ता तद्भङ्गमीत्येव, रोमाली लोहपट्टिका । कीर्तिस्तम्भोपमावूरू, मद्वधूरत्नशिल्पिनः ॥१८८।। जङ्घ लङ्घयतः सर्व-मुपमागोचरीकृतम् । पादौ च हसतः पद्म| वासां लक्ष्मी नखांशुभिः ॥ १८९ ।। न विश्वसिमि भाग्याना-मियत्यपि गते परम् । वधरेतादृशी गेहं, यन्ममालंकरिष्यति ॥ १९० ॥ साऽथ स्त्रीभिः शिवादेशा-दलं कर्तुं विभूषणैः । समारभ्यत वर्षाभिः, कुसुमैरिव मालती ॥ १९१ ॥ सर्वाङ्गालंकृता काम, रेजे राजीमती तदा । सरसीव नवोत्फुल्ल-कैरवाराममण्डिता ॥ १९२ ॥ आकल्पैः पीवरश्रीकं, सा मुहुर्वीक्ष्य दर्पणे । रोचिष्यमाणमात्मानं, नेमये समभावयत् ॥ १९३ ॥ ततोऽन्तर्मातृकागार-मवस्थाप्य वधूं मुदा । शिवादयः प्रमोदेन, वरान्तिकमुपाययुः ॥ १९४ ॥
ततश्चन्दनलिप्साङ्गो, मुक्ताभरणभूषितः । वरः प्रीणितनेत्राणि, पारिणेत्राणि पर्यधात् ॥ १९५ ॥ मौलौ धृतसितच्छत्रो, वारलीधूतचामरः । परिणेतुं प्रतस्थेऽथ, स्थितो रथवरे वरः॥ १९६ ॥ केपि स्तम्बेरमान केऽपि, रथान् केऽपि तुरङ्गमान् । आरूढाः प्रौढलक्ष्मीकाः, कुमाराः पुरतोऽचलन् ॥ १९७ ॥ अन्ये प्रचेलुराकल्प-पराजितबिडौजसः । आरुबैरावणनिभानिभानुभयतो नृपाः ॥ १९८ ॥ राम-कृष्णौ दशाहश्चि, वर्षीयांसस्तथाऽपरे । आरुह्य कुञ्जरप्रष्ठान , पृष्ठतस्तु प्रतस्थिरे ॥ १९९ ॥ प्रास्थायि स्वैरमास्थाय, शिबिकाः स्यूतमौक्तिकाः । कुन्ती शिवादिभिस्तेषां, पश्चाद्वैवाहिनीजनैः ॥ २० ॥ इभवृंहितमश्वीय-हेषा तूर्यरवा अपि । समन्ततोऽप्यधीयन्त, तासां मङ्गलगीतिभिः ॥ २०१॥ तानि तान्यवदानानि,
१ परिणेतृसंबन्धीनि अलंकारादीनि । २ पराक्रमान् ।
Jain Educat
onal
For Personal & Private Use Only