Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 61
________________ न्यायावतारः ४३ .००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० याणि, न सकलार्थगोचराणि । इदं तु भूतभवद्भविष्यद्रप्यरूपिसकलार्थविषयमिति । अथवा-यथा मत्यादीनि न प्रथमतः सम्पूर्णान्युत्पद्यन्ते, किन्तु यथा कथञ्चिदुत्पद्य पश्चाद्वृद्धिमत्राप्नुवन्ति । नैवमिदं, किन्तु ततप्रथमतयेवोत्पन्नमात्रं सकलानर्थान् साक्षाकरोति । ततः सकलमेवेदम् । असाधारणं वा केवलम् । यथाहि-मतिज्ञानादीनि यदा यदा तदुपयुक्त आत्मा भवति, तदा तदा स्वविषयान् प्रकाशयन्ति । केवलं तु आरभ्य उत्पत्तेःसर्वकालं स्वविषयाणां साक्षात्कारं कारयत्येवानुसमयं तद्वत इत्यसाधारणता । यद्वा-अनन्तं केवलं। यतःसान्तान्येव मतिश्रुतावधिमनःपर्यायाणि, केषाञ्चित्प्रतिपातसम्भवात् स्वतः, केषाचित् केवलोपलम्भे विगमात् । केवलं तु न कदाचित्प्रतिपतति । न च वाच्यं सिद्धत्वावाप्तावन्यदेव ज्ञानं, आत्मस्वभावरूपस्यैव केवलत्वात्तदेव च प्रथमत आविभूतमिति न तस्य सान्तत्वम् । यद्वा-अनन्तपदार्थविषयत्वादनन्तम् । अनन्तमिति हि सङ्ख्या तेन नावगमविरोधः, ज्ञानमपि चेदं तथाभूतमेव तेनानन्तत्वेन न ज्ञानाविषयत्वमपि तस्य। यद्यप्यवध्यादिष्वप्यस्त्येवानन्तपदार्थविषयता. तथापि सा रूपि - मर्यादयाऽनन्तसङ्ख्याके पुद्गलवज्जीवाकाशे अपि स्त एव । न चैते अवलोकयत्यवध्यादिमान अरूपित्वादेतयोस्तदिदमेवानन्तसङख्यावद्यावत्पदार्थगोचरम् । केवलं च तज्ज्ञानम् च केवलज्ञानतत् 'यदिति । यत्किमपि सदसरसामान्यविशेष-नित्यानित्यवाच्यादिरूपमर्थजातं प्रकाशते-उपलभते । यद्यप्यात्मैवोपलब्धा, ज्ञानं तु साधनमुपलम्भस्य, तथाप्यभिन्नत्वात् कथञ्चिद् गुणगुणिनोरेवं व्यपदेशः । यद्वाऽस्त्येव ज्ञानस्याप्युपलम्भकता। न भवेदन्यथा स्वान्यावभासकताऽस्येति। तत् कीदृशमित्याह-'प्रत्यक्ष मिति । अक्षो हि जीवः पूर्वव्युत्पादितरीत्या, तं प्रति गतं प्रत्यक्षमितिविग्रहाज्जीवमात्रापेक्षं, नान्यज्ञानवदिन्द्रियानिन्द्रियादिव्यपेक्षाऽत्रोपयोगापेक्षापि चेति । वत किंविधं प्रत्यक्षं ? यतः प्रागधारिते द्वे प्रत्यक्षे पारमार्थिक

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180