Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 140
________________ १२२ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००000000000000 लोकानां स च वृद्धयर्थं मुखबाहूरुपादतः । ब्राह्मणं क्षत्रियं चव, शूद्र च विन्यवर्त्तयत् ।।३॥ पौराणिकानां त्विदं-'यदा न किचिदपि वस्त्वासीत् पदार्थशून्योयं संसारस्तदा ब्रह्माऽस्वण्डमसृजत् । तस्माञ्च क्रमेण वृद्धाद् द्विधाभावमुपगतादूर्वाधो विभागोऽभूत्तन्मध्ये च सर्वाः प्रकृतयोऽभूवन । एवं पृथ्यप्तेजोवाय्वाकाशसमुद्रसरित्पर्वतमकराकरनिवेशादिस्थितिरभूत् । औपनिषदिकास्त्वन्यदन्यद्विविधं प्रचक्षते परस्परासम्बद्धम्'ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः। तदेव शुक्रं तद्ब्रह्म, तदेवामृतमुच्यते ॥१॥ तस्मिल्लोकाः श्रिताः सर्वे' । इति कठोपनिषदि । 'प्रश्ने तु प्रजाकामो वै प्रजापतिः स तपोऽतप्यत स तपस्तप्त्वा स मिथुनमुत्पादयते रयिं च प्राणं चेत्येतो मे बहुधा प्रजाः करिष्यत' इति । मुण्डके-तपसा चीयते ब्रह्म ततोऽनमभिजायते । अन्नात्प्राणो मनः सत्यं, लोकाः कर्मसु चामृतम् ॥१॥ तैत्तिरीये-असद्वा-इदमग्र आसीत् ततो वै सदजायत । ऐतरैयेआत्मा वा इदमेक एवाग्र आसीन्नान्यकिचनमिषत् स ईक्षत लोकान्नु सृजा इति ॥१॥ स इमाँल्लोकानसृजत अम्भोमरीचीमरमापोऽदोम्भः परेण दिवं द्यौः प्रतिष्ठान्तरितं मरीचयः । पृथिवी मरो या अघस्तात्ता आपः॥२॥ स ईक्षते मेनु लोकाः लोकपालानु सृजा इति । सोऽद्भय एव समुद्धृत्यामूर्छयत् ॥३॥ तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डं मुखाद्वारवाचोग्निर्नासिके निरभिद्येतां नासिकाभ्यां प्राणः प्राणाद्वायुरग्नी निरभिद्येता कर्णाभ्यां श्रोत्रं श्रोत्रादिश

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180