Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 164
________________ १४६ न्यायावतारः ०००००००००००००००००००००००००००००००००००००००००००००००००० ००००००००००००००००००००००००००००...3000040 ब्ध्यादिगमनं तदादेशश्च सङ्गच्छते ? इति विचारणीयम् । सत्यां चेच्छायां रागादिमत्त्वप्रसङ्ग इति पूर्वमुक्तमेवैतत्, किमावर्त्तनेन । यदपि चोदाहरन्-'न केवलं पारलौकिकेत्यादि । तदपि शोभते गेहेनर्दिनामेव, न त्वतथाविधानां भवादृशाम् । यतो विचारणीयं तावदेतद्-यत् न साहचर्यमानं व्याप्तिः, किन्त्वन्यथानुपपन्नत्वं, पूर्वमुक्तमेव चैतत् हेतुस्वरूपाख्याने । प्रकृते च भवद्भिर्विशिष्टातिमत्त्वात् कार्यत्वं, तस्माच्च सकत्र्तृ कत्वं, ततश्चान्येषामयोग्यत्वादीश्वरसिद्धिरभिप्रेता कर्तुं विश्वविधानलम्पटतया। परमत्रापि विचारणीयं तावत-किं हि विशिष्टकृतिमत्त्वं ? आकृतिमात्रस्य विशिष्टत्वात् । नहि परमाणुरपि त्रुट्यादिसमानाकृतिकः, परमाणूनां चानादित्वादकार्यत्वमभिमतमेव भवद्भिनित्याऽणुरूपे त्यादिवचनात् । परमाणुभिन्नत्वं तथात्वं चेद्, अत्र तावत् प्रलयवादिनोऽपि केचिदाहुः परं त्रुटेर्विभागं तत् तथापि न सुन्दरमेतत्, अस्तु वा यत्किञ्चित् । विश्वविधातुरपि नभोमण्डलावगाहकत्वाद् विशिष्टाकृतिमत्त्वमात्मनोऽपि च 'एषम आत्मान्तर्ह दयेणीयान् ब्रीहेर्वा यवाद्वेत्यादिवाक्यात तथात्वम् । औपाधिकी ह्याकृतिरेषा चेत्, नहि घटादीनामपि स्वाभाविकी, सा हि कार्यजन्यैव, विनाशिनी च तद्विनाशदनन्तरम । मूर्त्तत्वेनविशेषणेऽपि परमाण्वादौ पूर्वोक्तरीत्याऽस्त्येव कार्यत्वाभावः । अस्तु वा विशिष्टकृतिमत्तया कार्यता भवदभिमता, तथाप्युत्प. त्तिमत्त्वमेव तथा कदाचित् सिद्धर्यत्न तु सकर्तृकत्वम्, विद्यु. दिन्द्रधनुरादिषु बाधदर्शनात् । नहि तत्र विशिष्टाकृतिमत्ता न । न च तत्र विलोक्यते सकर्त्त कत्वम् । न च प्रत्यक्षेण प्रमितेऽपि पदार्थेs दृश्यकल्पना युक्ता । शरीरादावुद्भवदपि नखकेशमलादि दृश्यते एवं विशिष्टाकृतिमत्, न च तत्केनापि विहितम् । (स्वस्येच्छा तश्चिकीर्षा तत्प्रवृत्त्यभावात्) अनुभवसिद्ध चास्य स्वाभाविकोद्भवत्वम् । यदि च तत्रापि तत्कर्त ताऽनुमीयते, तदा नेश्वरकर्तृताग्रहस्येयत्ता । न चान

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180