Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
न्यायावतारः
००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००
(सेवं सेवं हृदयकजगं सर्वदा त्वां सुखी स्याम् ।) माम नामं चरणकमलं प्रार्थयाम्येतदेव ॥३॥ पदानां त्रयं ते समासाद्य बुद्धा, वितेनुर्गणेशाः समां द्वादशाङ्गीम् । स नार्थोऽस्ति विश्व न यस्तत्र बद्धः, चरित्रं न चित्रं कथं ते जिनेश ! ॥४॥ जयन्ति ते गणाधिपात्रिपाद्गवाश्रिताः पुनरदीदृशन्न दोषविश्वमाप्तशास्त्रगुम्फनैः । न चित्रकृत्तदारतत्रिविक्रमस्य विक्रमः, पदत्रयं तदीयमानशे भुवं यतोऽल्पिकाम् ॥५॥ जयन्ति स्वप्रभावालिन्यत्कृताखिलतीर्थिकाः । विक्रमादित्यभूपाब्ज-प्रोल्लासैकदिवाकराः ॥६॥ सत्तर्ककर्कशगिरा रचितासमार्थप्रद्योतिसम्मतिमुखाऽप्रतिमप्रबन्धाः । अज्ञानसन्तमसभेदनभानुकल्पा, आता जयन्ति गुरवो ननु सिद्धसूर्याः (शुभ्रा दिवाकरपदेन जयन्ति सिद्धाः ) ॥७॥ श्रिता वाणी लोपं सुरगुरुरपि स्वर्गमगमद्, हरिसङ्कीर्णाभूत् भुवनवलये वाद्यभिधया (वादियशसा)। न चन्द्रो नाऽऽदित्योऽन्धतमसमपाकर्तुमिह यदलं तत्तै (चैभि) नं विकचशमशास्त्रप्रणयनात् ॥८॥

Page Navigation
1 ... 174 175 176 177 178 179 180