Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala

View full book text
Previous | Next

Page 162
________________ १४४ न्यायावतारः ००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००००० योगिनी । अज्ञानेनाधिष्ठातृत्वमपि न सर्वथाऽनुपपन्नम् । यथाहिभवद्भिरपि यदाऽऽह्रियते परिणमति चान्नादि जायते शरीरादितया तन्नाधिष्ठित किं ? अधिष्ठितं चेत्,किं तज्ज्ञातं कथं भवति कथं वा न ? न चेत्तथैव विदन्तु कर्म । यथा वोपभुक्तमप्योषधमचेतनं सदपि दूरीकरोत्येव गहानात्मनाप्यनिर्वार्यान् स्वयम् । तच्च . कथं क तत्करोतीति ज्ञायते ? तथापि किमुपभोक्ता नीरोगी न जायते ? जायते चेद् अवबुध्यध्वमेवात्राधिष्ठितत्वम् । न काप्यनुपपत्तिः परमार्थपथवेदिनाम् । ईश्वरसिद्धिश्च नामलप्यते कैश्चिदपि । न च शक्या कर्त्त विहितापि च पूर्व सा । परं न स एक एव, विहितानुष्ठानविधानावाप्तात्मनेमल्यानां सर्वेषामेव तथात्वात् । जात्यपेक्षया वैकत्वे न कोऽपि विवादो, व्यक्त्यपेक्षमनेकत्वभावेऽपि जात्यपेक्षकत्वस्याविरुद्धत्वादेतत्त्वन्यदेव । .. यश्वोदितः श्लोक: अज्ञो जन्तु रित्यादि । स एवमपि न शक्यते योजयितु ? यजन्तुरनादिकालीनक्लिष्टतराष्टादृष्ठविलुप्तविवेकलोचनो जीव आत्मनः-स्वस्य सुखदुःखयोः-सुखदुःखनिबन्धनीभूत-शुभाशुभादृष्टहेत्वोर्विवे काविवेकयोरज्ञो-मिथ्यात्व-ज्ञानावरणीयादिघनतरमलमलिमसत्वादबोधः । नहि भवति जीवानां स्वयं ज्ञानम्, उपदेशादेव तद्भावात् । अत एवोच्यते-केषाश्चित्तद्भाव-स्त्वत्यन्ताल्प इति नैव विवक्ष्यते- सुच्चा जाणइ कल्लाणं' । गुरुशुश्रूषा-फलं श्रुतज्ञानं । परवागरणेणं इत्यादि । सुखयतीति सुखं, दुःखयतीति च दुःखं, सातेतरवेदनीयानिमित्त एव गृह्यते अत्र । यतस्ते एव ह्यात्मनः सुखदुःखविधानविज्ञ । तहिं कथं स प्राप्नुयात् सुखदुःखे ? इति प्रोचुः-ईश्वरप्रेरितो गच्छेत् स्वर्ग वे'ति । तत्रेश्वरो-ज्ञानावःणादि घातिकर्मसमूलकाषंकषणावाप्तज्ञानाद्यैश्वर्यो विशिष्पुरुषः, तादृशस्येश्व

Loading...

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180