Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
न्यायावतारः
१४३
03060030००००००००००००००००००००००००००००००००००००००००००००० 100.00000००००००००००००००००००००००००००
इत्यादि । न च नाज्ञातं भवति क्रियते वेति नियमोऽस्ति । दृश्यते याज्ञानां बालमत्तसुतमूर्छितादीनां क्रिया । न च सा न फलति । तथा च यल्लपितं न समर्थो ज्ञातुमिति । तदालजालमेव । अन्यच्चसर्व एवात्मानः सुखप्रियाः दुःख द्विषश्च ति प्रयतन्त एव यथारुचि । पर मोहान्धवाददृष्टगुणदोषतया भवति विपरीतापि प्रवृत्तिः । नह्यातुर आमयवेगपीडितोऽध्यौषधमुपयुक्तमुपभुजानोऽपि न विदधात्यपथ्यम् । न च तत् केनचिदन्येन कारितम् । तद्वत्रापि । अत एव चोक्तं महर्षिभिः'दुःखद्विट् सुखलिप्सुर्मोहान्धवाददृष्टगुणदोपः । यां यां करोति चेलां तया तया दुःखमाइत्ते ।। (पशम०) इत्यादि ।
'सकम्मुणा किश्च पावकारी' इत्यादि च । एतेन ये प्रलापंचक्रुरविदितवस्तुस्वभावाः यत्-यदि जीव एव स्वयं प्रवर्तते स्वभोग्यकर्मकरणे किमित्यायतिकटुकं कुर्याद् यायाद्वाऽशुभतरलेश्यापरिणामदेहादिदुःखदावानलज्वालाभितप्त नरकमिति । ते निरस्ताः । आतुरवत्तस्योपपत्तेः । वेत्ति घ सोऽपि भोक्तव्यमवश्यं स्वकृतं भागधेयं शुभमशुभं वा । किमिति प्रवर्तते प्रत्याशुभतरविपाकवितरणपटुनि जीवः कर्मण्यशुभे, येरङ्गीकृतमीश्वरो विधातेति तैरपि कर्मानुसारेणैव तत्फलदातृता स्वीकृतव । तर्हि तैरपि चिन्त्यमेवैतत्-यत् कथममी प्रवर्त्तन्ते सुधोपममायतिहितदं आपातसुन्दरं च विहाय सुकृतमार्गमन्यथाभूत एव । न चेश्वरो दाता फलं, न विहित चेजीवैरिति । गत्यन्तरगतिश्च जीवानामनिष्ठापि साधयत्येवादृष्टं स्वस्य विहितपूर्वम् । यथा विषमतमविषवेगातिशायि हालाहलमास्वाद्य कण्डूति कण्डूयनां वा विधायानीप्सुरपि तत्फलं किमवाप्नोति जीवितव्यमव्याबाधतां वा ? न चेद् अत्राप्येतदेव विदांकुर्वन्तु विद्वद्वराः । यथाविहितं भोक्तव्वमेव स्वादृष्ट कलम् । न तत्र स्वस्य समीहाउसमीहा वोप

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180