Book Title: Nyayavatara
Author(s): Manikyasagarsuri
Publisher: Agmoddharak Granthmala
View full book text
________________
१३०
न्यायावतारः
0.00000000000000000000 30000000 1000........03000000000000000000000000000000008 10000000
कृष्णपक्ष एव रयिः शुक्लः प्राणः || १२ || अहोरात्रो वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः || १३ || अन्न ं वै प्रजापतिस्ततो ह वै तद्रेतस्तस्मादिमाः प्रजाः प्रजायन्त इति ।
-
बृहदारण्यकेऽपि स एव संवत्सरः प्रजापतिस्तस्य रात्रय एव पञ्चदश कलासु चैवास्य षोडशी कला । अत्रोहनीयमूहावतां यदुतैतत् कर्तृभिस्तावदनिर्णीतो यः कोऽपि प्रजापतिर्निर्दिष्टो, येन विकल्पयति संवत्सरादिभिर्न च निर्णीते भवत्येवायमुल्लेखः । अन्ततो गत्वा चान्नमेव प्रजापतितया निर्दिदेश, यन्त्र केनापि न कक्षीक्रियते तदाधारत्वात् सर्वेषां तच्चावश्यमेव प्रजारक्षणतत्परमिति माननीयं विद्वद्भिः । कल्पनाकल्पितत्वं च न तं प्रच्छन्नमैन्द्रजालिकानामितरेपाभित्र किन्तु तद् ये हवे तदिष्टापूर्त्ते कृतमित्युपासते ते चान्द्रमसमेत्र लोकमभिजायन्ते त एव पुनरावर्त्तन्ते तस्मादेते ऋषयः प्रजाकामाः दक्षिण प्रतिपद्यन्ते एष वै रयिर्यः पितृयाणः ॥ ॥ अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यभिजायन्त एतद्वै प्राणानामायतनमेतदमृतमभयमेतत्परायणमेतस्मान्न पुनरावर्त्तन्त इत्येव निरोधः । विलोक्यतां विद्वः सोऽत्र स्पष्ट वाक्चत्येते - कृतमित्युपासनं दक्षिणायने तपोत्रह्मचर्यादि स्वीकरणं च दृष्ट्वातितरामांतरां दृष्टि सूर्ये प्रजापतितया निवेशयन्ति । एवमेव मासस्य प्रजापतित्वे तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्ति, इतर इतरस्मिन् । रात्रेः प्रजापतित्वे प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तद्यद्रात्रौ रत्या संयुज्यन्ते । अत्रापि स्पष्टमेव निरटङ्कि स्वाभिप्रायः सूरिभिर्मासरजन्योः प्रजापतिकल्पनायाम् । यद्यपि च रात्रौ रत्या संयोजनं प्रतिपादितं स्वेषामपि प्रतिकूलं परं तदत्र प्रस्तावे प्रजोपपादनस्य प्रक्रान्तत्वादनिवार्य गृहमेभ्यपेक्षया तस्यान्यकान्तां विहाय स्वदारसन्तोषेण स्वदाराभिगमरूपस्य वा ब्रह्मचर्यरूपत्वमिति युक्तमेव । अतः मुण्डकोपनिषदि - 'तपसा चीयते ब्रह्म ततोऽन्नमभिजायते । श्रन्ना
•

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180