Book Title: Nandanvan Kalpataru 2011 06 SrNo 26
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 10
________________ अथ गीतिप्रकरणम् गीतिवृत्तम् व्यक्तिविशेषं वन्दे, सत्यपि च प्रस्तुतेतरश्लेषे । रागानर्तितमतिगं, रुद्रत्वं समदृशं च कमपीह ॥ ६ ॥ षड्भिः कुलकम् ॥ उपगीतिवृत्तम् स्तम्भितवादिस्तम्भातिशयेन स्तम्भनेशेन । धर्मोकस्तम्भेनाऽऽढ्यभुवमलङ्कुर्वतां तेषाम् ॥७॥ उद्गीतिवृत्तम् दधति सुदर्शनरत्नं, पुरुषोत्तमतामपि प्रवराम् । कृष्णत्वगदाकर ते, विजहाना अपि सदा च ये तेषाम् ॥८॥ आर्यागीतिवृत्तम् सकलकलाभाजः शुचिपक्षोदितोदितवरोदयाः सन्तोऽपि । परिहृतदोषाकरताः कक्षीकृतमित्रताश्च किल ये तेषाम् ॥९॥ इति गीतिप्रकरणम् ॥ अथ वैतालीयप्रकरणम् वैतालीयवृत्तम् आनन्द भास्वरा वराः, कल्याणधरा ये क्षमाधराः । पार्थिवता यैरुपेक्षिता, तेषां वै बुधसद्मनां सदा ॥ १० ॥ औपच्छन्दसिकवृत्तम् सर्वसुमतिशेखराश्च सर्वासुमतिविशेषविनाकृता जगत्याम् । परिवर्जितपाक्षिक ग्रहा ये यदपि विज्ञानाश्रिताश्च तेषाम् ॥ ११ ॥ आपातलिकावृत्तम् मध्यस्थतया विदिता ये, उपलोकाग्रसिद्धितयाऽपि । चारुक्रमपद्मगता ये, रसभाजोऽपि जडाशयकान् ॥१२॥ दक्षिणान्तिकावृत्तम् अतीतभूषास्तथाऽपि ये, सदा सुमनसाभ्यर्चितक्रमाः । सदा प्रसन्नीकृता यकैः, व्रताः सुमनसां सत्फलप्रदैः ॥१३॥

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 153